________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९७८
चरक-संहिता। महतीगर्भावक्रान्तिशारोरम् तरतमयोगाच्छरीरयोनिविशेषेभ्यश्चान्योन्यानुविधानत्वाच्च। शरीरं हि ® सत्त्वमनुविधीयते, सत्त्वञ्च शरीरम्। तस्मात् कतिचित् सत्त्वभेदाननूकाभिनिर्देशेन निदर्शनार्थमेवानुव्याख्यास्यामः॥१६
भेदाग्रं भेदस्य प्रवरमपरिसङ्घप्रयम् । कस्मात् ? तरतमयोगात् । सत्त्वरजस्तमसां द्वयोद्रेयोरेकस्योत्कर्षयोगात् त्रयाणाञ्चैकस्योत्कर्षयोगाच। उत्कर्षों हाश एवाणुप्रणुकादिभेदादसङ्ख प्रयः। न केवलं सत्त्वादितारतम्यात्, शरीरयोनिविशेषेभ्यश्चेति। शरीरविशेषाणां योनिविशेषेभ्यः। योनिः शरीराणां जराबादयः। तद्विशेषाः प्रत्येकभेदादसधै प्रयाः। कुतः शरीरयोनिविशेषेभ्यः सत्त्वविशेष इत्यत आह-अन्योन्यानुविधानाच्चेति। शरीरसत्त्वयोरेकत्र सहजातखात् परस्परमनुरूपेण विधानात्। कथमित्यत आह-शरीरं हीत्यादि। हि यस्मात्। जायमाने गर्भ निर्माणक; शरीरं सत्त्वमनु विधीयते सत्त्वसदृशं शरीरं निम्ीयते। सत्त्वञ्च शरीरमनु विधीयते योनिविशेष जायमानं शरीरमनु सादृश्येन सत्वं निर्मीयते। तस्मात् सत्त्वभेदान् कतिचिदनूकाभिनिद्देशेन सादृश्याभिनिर्देशेन निदर्शनार्थमनुव्याख्यास्यामो न तु कृत्स्नान् सत्त्वभेदान् । कृत्स्नसत्त्वभेदस्यानूकाभिनिर्देशेन निदर्शनकरणाशक्यत्वात् । सत्त्वभेदनिदर्शनेनैव शरीरभेदस्यापि निदर्शनसिद्धेः पृथनिदर्शनं करिष्यामः। सत्त्वशरीरयोरन्योन्यानुविधानात् ॥१६॥
तत्र रोषांशतमोऽशौ सदोषौ अधर्मरूपतया। भेदानमिति भेदप्रमाणम् । तरतमयोगादिति शुचितरशुचितममनोभेदयोगात्। शरीरविशेषाः बालयुक्शरीरादिविशेषाः। योनिविशेषास्तु मनुष्यपश्वादिजातिविशेषाः। किंवा शरीरस्य नरपश्वादिजातिविशेषाः शरीरयोनिविशेषाः, तेभ्यः। अथ शरीरभेदाद वा कथं मनोभेदो भवतीत्याह-अन्योन्यानुविधानाञ्च । एतदेव विभजते- शरीरमपीत्यादि। सत्त्वानुरूपं शरीरं भवति, यदि शुद्धसत्त्वं भवति, तदा देवादिशरीरं भवति इत्यादि, तथा शरीरानुरूपञ्च सत्त्वं भवति । यथा पशुशरीरे तामसम्, मनुष्यशरीरे राजसम्, देवशरीरे सात्त्विकमिति ज्ञेयम्। किंवा अन्योन्यानुविधानादिति सत्त्वरजस्तमसां परस्परानुविधानादित्यर्थः। अस्मिन् पक्षे शरीरं ह्यपि 'सत्वमनु विधीयते' इत्यादिना व्यवहितमपि शरीरानुविधानं मनसो दुर्बोधत्वात् न्याख्येयम्। सत्त्वभेदानिति मनोभेदान् । अनूकाभिनिर्देशेन सादृश्यनिर्देशेन ॥ १५॥१६॥
-
* * "अपि" इति चक्रतः पाठः ।
For Private and Personal Use Only