SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९७६ चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् जनयति तां पुरुषव्यापदमाचक्षते । एतेन सात्माजानां रसजानां सत्त्वजानाचावयवानां विकृतिरपि व्याख्याता भवति। निर्विकारः परस्त्वात्मा सर्वभूतानां निर्विशेषः सत्त्वशरीरयोस्तु विशेषात् विशेषोपलब्धिः ॥ १३॥ एतेनेत्यादि। एतदनुसारेण यस्या गर्भवत्याः सात्म्यमाहाररसं दोषप्रकोपणान्यासेवमानायाः प्रकुपिता दोषा दूषयन्ति तदा सात्म्यरसाहाररसजानामारोग्यादीनामवयवानां शरीराभिनित्यभिप्रादीनाश्चावयवानां विकृतिर्भवति। यस्याः सत्त्वं दृपयन्ति यदि तदा सत्त्वजानाश्चावयवानां भक्तिशीलशौचादीनां विकृतिभवतीति व्याख्यातं भवति। तर्हि चात्मजानाश्च अवयवानां किमात्मदोपाद विकृतिभवतीत्यत आह-निर्विकार इत्यादि। शारीरमानसैदोषैरात्मनो न दुष्टिरस्ति । कस्मात् ? यत परस्वात्मा चेतनाधातुरव्यक्तं नाम निर्विकारः। सर्वभूतानां निर्विशेषः। समसत्त्वरजस्तमोलक्षणो हीनाधिकावस्थारहितः सूक्ष्मदेहसर्गानन्तरं नारायणेन हिंस्राहिंस्रादिभावैयोगे कृते विशेषेऽपि विकाराभावान्निविशेषत्वं स्थूलपुरुषेषु सर्वेष्वात्मन इति स्थूलपुरुषावस्थायां सत्त्वशरीरविशेषयोगात् प्रतिजनमात्मनो विशेषोपलब्धिरिति विशेष्यमात्रं न तु विकारः स्यादिति ॥१३॥ ___ एवं मातापितृजावयवविकृति व्याख्याय सात्म्यरससत्त्वजावयवविकृतिव्यपदेशार्थमाह--- एतेनेत्यादि। सात्म्यविभ्रमात् तु सात्म्यजानामारोग्यानालस्यादीनामन्यतमेन हीयते। एवं रससत्त्वयोरप्युन्नेयम् । आत्मजोऽप्ययं गर्भ उक्तः, तत् कथमिह तद्विकृत्या विकृतिर्गर्भस्य नोच्यत इत्याहनिर्विकार इत्यादि। पर इत्यनेन मनःशरीरादिसमुदायादात्मानं व्यवच्छिनत्ति। सर्वभूतानां निविशेष इति, सव्वषु भूतेषु वर्तमानोऽप्ययं परमात्मा तुल्य एव । यस्तु तत्र सुखदुःखादिविशेष उपलभ्यते, स शरीरविशेषस्य तथा मनोविशेषष्य च सुखदुःखादिविशेषकारणस्य विशेषादपलभ्यते। एतदेव शरीरसत्त्वयोस्तु' इत्यादिनोक्तम् । सुखादयस्तु न परमात्मविकाराः, किन्तु धर्मा एवेति दर्शितमेव। यानि चात्मजत्वेन गर्भे "तासु तासु योनिषु उत्पत्तिः” इत्यादिना ग्रन्थेनात्मजानि दर्शितानि, तान्यपि परमात्मविकारा न भवन्ति, किन्तु सत्त्वरजस्तमःप्रबलतारूपविकारजमनोजन्यधर्माधर्मजन्यान्येव। तेन सूक्ष्मचिन्तायामात्मजान्यपि यान्युक्तानि, तानि सत्त्वजान्येव । ततश्चेहात्मजावयवविकारोऽपि सत्त्वजावयवविकार एव बोद्धव्य इति भावः ॥ १३ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy