SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्थ अध्यायः । शारीरस्थानम् । १९७५ तदा पूतिप्रजां जनयति। यदा त्वस्याः शोणित-व-गर्भाशयवीजभागावयवः स्त्रीकराणाञ्च वीजभागानामेकदेशः प्रदोषमापद्यते, तदा स्त्राकृतिभूयिष्ठामस्त्रियं वाती + नाम जनयति तां स्त्रीव्यापदमाचक्षते। एवमेव पुरुषस्य वीजदोषे पितृजावयवविकृतिं विद्यात् । यदा शरीरे वीजभागः प्रदोषमापद्यते, तदा बन्ध्यं जनयति। यदा ह्याय वीजे वीजभागावयवः प्रदोषमापद्यते तदा पूतिप्रजां जनयति। यदा त्वस्य वीजे वीजभागावयवः पुरुषकराणाञ्च वीजभागानामेकदेशः प्रदोषमापद्यते, तदा पुरुषाकृतिभूयिष्ठमपुरुवं तृणपूलिकं + नाम पूतिप्रजां दुर्गन्धिप्रजां जनयति। यदा पुनरस्याः स्त्रियाः शोणितगर्भाशययोः वीजभागैकदेशः स्त्रीकराणामार्त्तवाधिक शुक्रादीनामेकदेशश्च प्रदुष्टो भवति तदा स्वाकृतिभूयिष्ठामस्त्रियं नपुंसकरूपां वात्तों नाम जनयति। तां सव्वों स्त्रीव्यापदमाचक्षते वैद्या इति। अथ पुरुषव्यापदमाह-एवमित्यादि। अनेन प्रकारेण पुरुषस्य दोषप्रकोपणान्यासेवमानस्य प्रकुपिता दोषाः शरीरे वीजे वीजभागं पुरुषकरं शुक्राधिकादिकं प्रदूषयन्ति तदा बन्ध्यपुत्रं जनयति। यदा पुनरस्य वीजे वीजभागः प्रदुष्टो भवति तदा पूतिप्रज पुत्रं जनयति। यदा च पुनरस्य पुसो वीजे वीजभागावयवः पुरुषकराणाञ्च शरीरवीजभागानामेकदेशः शुक्रादिः प्रदुष्टो भवति तदा पुरुषाकृतिभूयिष्ठमपुरुष नपुंसकं तृणपूलिकं नाम जनयति। तां पुरुषव्यापदमाचक्षते। इति। व्याख्येयम्। 'अवयव'शब्देन तु गर्भाशयस्य चार्तवस्य चैकदेश इहोच्यते। प्रतिप्रजामिति म्रिय. माणापत्यम्। अन्ये तु क्लिन्नाङ्गप्रत्यङ्गां पूतिमाहुः। स्त्रीकराणां शरीरवीजभागानामिति स्त्रीव्यञ्जकस्तनोपस्थलोमराज्यादिजनकवीजभागानाम् । अस्त्रियमित्यसम्पूर्णलक्षणाम्। रान्तां नामेति 'रान्ता'संज्ञा शास्त्रसमयकृता। स्त्रीनिमित्तार्तववदोषकृतव्यापत् स्त्रीव्यापत्। एवं तां पुरुष. ध्यापदमाचक्षते इत्यत्रापि पुरुषव्यापद् व्याख्येया। वीज इति शुक्रे । शुक्ररूपवीजजनको भागो वीजभागः । इह बन्ध्यमित्यनेन पुरुषबन्ध्यं ब्रूते, इह तु पूतिप्रजाव्याख्या पूर्ववत्। अपुरुषमिति असमस्तपुरुषलक्षणयुक्तम् । 'तृणपुत्रिक'संज्ञापि शास्त्रसमयसिदैव। रान्तातृणपुत्रिकयोर्व्यवायेच्छा परं भवति, न तु व्यवायसामर्थ्यमिति ब्रुवते। * शोणिते इति चक्रभृतः पाठः। । रान्तामिति चक्रः। तृणपुत्रिकमिति वा पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy