SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्थ अध्यायः शारीरस्थानम् । १९६६ मदकराणि मद्यान्यभ्यवहरेत् न यानमधिरोहेत्। न मांसमश्नीयात् सन्द्रियप्रतिकूलांश्च भान् दूरतः परिवजयेत् । यच्चान्यदपि किञ्चित् स्त्रियो विदुः। तीव्रायान्तु खलु प्रार्थनायां काममहितमध्यस्य हितेनोपसंहितं प्रदद्यात् प्रार्थनाविलयार्थम् । प्रार्थनासन्धारणाद्धि वायुः कुपितोऽन्तःशरीरमनुचरन् गर्भस्यापद्यमानस्य विनाशं वैरूप्यं वा कुर्य्यात्॥१०॥ ___ अथ चतुर्थे मासे स्थिरत्वमापद्यो गर्भ, तस्मात् तदा गर्भिणी गुरुगात्रत्वमापद्यते। विशेषेण पञ्चमे मासे गर्भस्य मनोरमा भवति देवतादिभिरपि ग्रहीतुमिष्टा स्यादिति भावः। मद्यसात्म्या पुनर्नारी गभिणी न मदकराणि मद्यान्यभ्यवहरेत् । यच्चान्यदपीति मैथुनादिकं यच्च स्त्रियो विन्न विदुः तदपि परिवर्जयेत् । ननु विघ्नमार्थनायां कि कत्र्तव्यमित्यत आह-तीव्रायामित्यादि। कामं यथाभिलषितमहितमपि हितेनोपसंहितं मिश्रितमस्यै गर्भिण्यै दद्यात् । किमर्थमित्याह-प्रार्थनाविलयार्थं पुनःप्रार्थनानिवारणार्यम्। नन्वहिताप्रदानेन किं स्यादित्यत आह–प्रार्थनेत्यादि। हि यस्मात् अहितप्रार्थनायाः सन्धारणादप्राप्ता इति । इति तृतीयमासीयगर्भव्याख्यानम् ॥१०॥ गङ्गाधरः-अथ चतुर्थे इत्यादि। चतुथ मास चतुर्थमासस्य शेषाद्ध, यस्यास्वाहारादुरत्कर्षस्तस्यास्तु गर्भः पूर्वार्द्ध वा। विशेषेणेत्यादि । विशेषेण यच्चान्यत् स्त्रियः गर्भकालासेव्यत्वेन विद्यः, तदपि वर्जयेत् ; वदन्ति हि स्त्रियः-"न गर्भिणी कूपमवलोकयेत्, न मदीपारं यायात्" इत्यादि ; वृद्धस्त्रीवचनमप्यागममूलमेव, इह तु विस्तरभयान दर्शितमिति भावः । प्रार्थना इति याच्या; तस्यास्तु तीव्रत्वं बलवदिच्छाजन्यमेव ; हितोपहितमिति हितेन युक्तम् ; किंवा कल्पनया हितम् ; प्रार्थनाया विनयमं विस्फोटनम्, तदर्थम् ; स्फोटना च प्रार्थितलाभेनैवापयाति ; प्रार्थनाऽविनयने दोषमाह-प्रार्थनेत्यादि। प्रार्थनायाः सम्यगधारणं प्रार्थनासन्धारणम् ; एतच्च स्तोकक्रमेणापि प्रार्थनादाने सति भवति, यथोक्तविधिना वा हितदाने सति इच्छा मनाक समग्रा वा खण्डिता भवति ; इच्छाविघातश्च मनःक्षोभकरभयादिकर्तृत्वाद वातप्रकोपको भवति ; आपद्यमानस्येत्यनेन गर्भस्यातितरुणत्वेन मनागपि वातक्षोभासहत्वं दर्शयति । वैरूप्यविनाशविकल्पस्तु वातप्रकोपप्रकर्षापकर्षकृतो ज्ञेयः॥ १०॥ चक्रपाणिः- तृतीयमासानुपूटा कथनप्रस्तावागतं गर्भस्य विशेषमभिधाय यथाक्रमागतां चतुर्थ* हितोपहितं प्रदद्यात् प्रार्थनाविनयनार्थम् इति चक्रसम्मतः पाठः । २०७ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy