________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९७०
चरक-संहिता। [महतीगर्भावकान्तिशारीरम् मांसशोणितोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्माद गर्भिणी तदा कार्यमापद्यते। विशेषेण षष्ठे मासे गर्भस्य बलवर्णोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्मात् तदा गर्भिणी बलवर्णहानिमापद्यते। विशेषेण सप्तमे मासे सहसा सर्वभावैराप्यायते गर्भः, तस्मात् तदा गर्भिणी कान्ततमा ® भवति । अष्टमे मासे गर्भश्च मातृतो गभतश्च माता रसहारिणीभिः संवाहिनीभिः मुहुर्महुरोजः परस्परत आददाति, गर्भस्य इति विवृणोति--अधिकमन्येभ्यो मासेभ्य इति प्रथममासावध्युपचयात् । तस्माद्दर्भस्य पूर्वपूच्चमासतः पञ्चमे मासेऽधिकमांसशोणितोपचयात् तदा पञ्चमे मासे काप्रमापयते गर्भिणी। मनश्च प्रतिबुद्धतरं भवति पञ्चमे। इति सुश्रुतोक्तं विशेषेणेति पदेन बोध्यम् ।
एवं षष्ठे च मासे । विशेषेणेति पदेन पष्ठे बुद्धिः प्रतिबुद्धतरेति सुश्रुतोक्तं बोध्यम् । तथा सप्तमे सङ्गिप्रत्यङ्गविभागः प्रव्यक्ततर इति सुश्रुतोक्तन्तु सव्वभावैः शरीरे यावन्तो भावा बलवर्णकान्तिबुद्धिसङ्गिप्रत्यङ्गविभागादयस्तावद्भिर्भावैः सहसाप्यायते वद्धते। कान्ततमा अतिशयेन मनोरमा भवति । अष्टमे मासे इति। अष्टमे मासे रसहारिणीभिः संवाहिनीभिर्धमनीभिगर्भश्च मातृतो मुहुर्मुहुरोजो बलहेतु धातु विशेषमाददाति । माता च गभिणी च गर्भतो मुहुर्मुहुरोज आददाति इति गर्भगभिप्योः परस्परत ओजोग्रहणं मुहुर्मुहुः मासानुपूर्वीमाह-चतुर्थ इत्यादि। स्थिरत्वमिति निविडत्वम्। अत एव निविड़ेन गुरुतरेण गर्भणाक्रान्ता गर्भिणी गुरुगात्रा भवतीति युक्तम् । ___ अधिकमन्येभ्य इत्यनेन मासान्तरेष्वपि स्तोकक्रमेण मांसादिवृद्धिं जनयति । येन शारीरेण भावेन गर्भ उपचीयते, तेन गर्भिणी हीयते इति युक्तमेव। यतो गर्भमांसादिपोषणेनैव क्षीण आहाररसो न मातुमांसादि सम्यक पोषयति । बलवर्णयोरुपचयो बलवर्णोपचयः । किंवा उपचयो धातुपुष्टिः। सर्वभावैरिति मांसशोणितादिभिः। सप्तमे गर्भ आप्याय्यते, पूर्वेषु तु मासेषु न सर्वैः । युगपदिति शेषः। सर्वाकारैरिति सर्वमांसशोणितादिजन्यरूपैः। क्लान्ततमेति हीनतमा। भष्टम इत्यादि। रसवाहिनीभिरिति मातृहृदये गर्भनाड्याञ्च सम्बद्धाभी रसवाहिनीमिः । परस्परत ओज आददाते इति मातुरोजो गर्भ आदत्ते, गर्भस्य चौजो माता आदत्ते ।
* आप्याय्यते * * * क्लान्ततमा इति चक्रतः पाठः ।
For Private and Personal Use Only