SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६८ चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् स्तनयोः, प्रोष्ठयोः स्तनमण्डलयोश्च काष्णाम् अत्यर्थम्। श्वयथुः पादयोरोषल्लोमराज्युद्गमो योन्याश्चाटालत्वमिति गर्भ पर्यागते रूपाणि भवन्ति ॥६॥ - सा यद् यदिच्छेत् तत्तदस्यै दद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्यः । गर्भोपघातकरास्त्विमे भावाः ; तद् यथा—सर्वमतिगुरूष्णतीक्ष्णं दारुणाश्च चेष्टाः, इमांश्चान्यानुपदिशन्ति वृद्धाः। देवतारदोऽनुचरपरिरक्षणार्थं न रक्तानि वासांसि बिभृयात् न चक्षुषोर्लानिः। आलस्यं निद्रार्तता। स्तनयोः स्तन्यं प्रकाशते। ओष्ठयोः कार्ण स्तनमण्डलयोःचूचुकयोश्व काष्णप्रमत्यर्थमेव पूर्व स्यात्। पादयोरेवश्वयथनान्यत्र। ईषदल्पः रोमराजीनामुद्गमः। योन्याचाटालखं विस्तृतयोनिता । गर्भ पर्यागते सव्र्वतोभावेन समागते। तेन प्रथममासि इपद्रपेण लिङ्गान्येतानि भवन्ति । द्वितीयमासे मध्यमरूपेण तृतीयमासे पूर्णरुपेण। सुश्रुतेऽपि-स्तनयोः कृष्णमुखता रोमराजगद्गमस्तथा। अक्षिपक्ष्माणि चाप्यस्याः सम्मील्यन्ते विशेषतः॥ अकामतश्छद्दयति गन्धादुद्विजते शुभात् । प्रसेकः सदनश्चापि गर्भिण्या लिङ्गमुच्यते ॥ तदापभृत्येव व्यायाम व्यवायमपतर्पणमतिकर्षणं दिवास्वप्नं रात्रिजागरणं शोकं यानारोहणं भयमुत्कटुकासनञ्चैकान्ततः स्नेहादिक्रियां शोणितमोक्षणश्चाकाले, वेगविधारणश्च न सेवेत। दोषाभिघातैगंभिण्या यो यो भागः प्रपीड़ाते। स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ॥ इति ॥९॥ गङ्गाधरः-सा यद् यदिच्छेदित्यादि। सा द्विहृदयिनी गर्भवती। अन्यत्रेति विना इत्यर्थः। इमे वक्ष्यमाणातिगुर्वादयः। सव्र्वमित्यादि। इमानिति वक्ष्यमाणान्। देवतेत्यादि। रक्तवर्णवसना हि नारी सकलजन द्विहृदयोपचारञ्चात्रैव वक्ष्यति ; ज्ञानमिह गर्भस्य द्विहृदयस्य च ज्ञानम् ; अम्लकामता विशेषेणेति च्छेदः। श्रद्धा इच्छा ; उच्चावचेष्विति उच्चनीचेषु, भक्षणीयत्वेन कृतेषु चाकृतेषु चेत्यर्थः ; ईषत् पादयोः इवयथुः ; चाटालत्वं सविवृतत्वम् ; तेन एतानि च लक्षणानि तृतीयमासयुक्तानि च द्वैहृदयस्य च लिङ्गानि भवन्तीति ज्ञेयम् ॥९॥ चक्रपाणिः-दारुणाश्चेष्टाः व्यायादिकाः ; देवतारक्षोऽनुचरेभ्यः परिरक्षणम् । यदित्यादि। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy