________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः] शारीरस्थानम् ।
१९६७ उपचारसम्बोधनं ह्यस्य ज्ञाने दोषज्ञानश्च लिङ्गतः छ, तस्मादिष्टो लिङ्गोपदेशः;तद्यथा-आर्त्तवादर्शनमास्यसंस्रवणमनन्नाभिलाषछर्दिररोचकोऽम्लकामता च विशेषेण। श्रद्धाप्रणयनश्चोच्चावचेषु भावेषु गुरुगात्रत्वं चक्षुषो निरालस्यं स्तन्यं धारणात्मकम् । गवां मांसे च बलिनं सर्व्वक्ल शसहं तथा। माहिषे दोहदाच्छूरं रक्ताक्षं लोमसंयुतम्। वराहमांसात् स्वमालु शूरं सञ्जनयेत् सुतम्। मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम्। समराद्विग्नमनसं नित्यभीतश्च तैत्तिरात्। अतोऽनुक्तेषु या नारी समभिध्याति दोहदम् । शरीराचारशीलैः सा समानं जनयिष्यति। कर्मणा चोदितं जन्तोर्भवितव्यं पुनर्भवेत्। यथा तथा दैवयोगादोहदं जनयुद्ध दि” ॥ इति । गर्भिण्या आहारविहाराद्यनुत्कर्षण गर्भस्यानतिचिरपोषणाच्चतुर्थमासस्य पूर्वार्द्धकालाभिप्रायेण लिखितवान् सुश्रुतः। अस्य तन्त्रस्य तु कृती गर्भिण्या आहारविहारादुरत्कर्षण गर्भप्रपुष्टया तृतीयमासस्य शेषाद्धकालाभिप्रायेण सर्वेन्द्रियसोगावयवाभिनित्ति व हृदय्यादिकं लिखितवानित्यतो न तन्त्रद्वय विरोधः। ननु कथं गर्भिणी प्रियहिताभ्यां भिषज उपचरेयुरित्यत आह- तस्या इत्यादि। तस्या द्वैहृदयिन्या गर्भिण्या द्वैहृदय्यस्य च गर्भस्य ॥८॥ ___ गङ्गाधरः-नन्वनयोलिङ्गोपदेशेन किं स्यादित्यत आह-उपचारेत्यादि । हि यस्मादस्य द्वैहृदय्यस्य गर्भस्य लिङ्गतो ज्ञाने सति उपचारसम्बोधनं द्वैहदयिन्या गर्भिण्या आहारविहारादीनामुपचारस्य सम्यक् बोधः स्यात्, दोषशानश्च स्यात्, तस्मादुपचारस्य सम्यासम्यग्ज्ञानहेतुखात् तयोविज्ञानार्थ लिङ्गानां समासेनोपदेश इष्ट इति--आर्त्तवेत्यादि । आर्त्तवादर्शन मिति। प्रथममासावधि लिङ्गान्येतानि प्रायेण भवन्ति । गर्भिणीगर्भ योरुपचारार्थ तृतीयमासि लिखितवान् न तु तृतीयमास्येव भवन्तीमानि नान्यमासीति। छद्दिरकामतो वमनम् । विशेषेणाम्लेषु कामता श्रद्धेत्यर्थः । उच्चावचेषु उच्चैश्च नीचैश्च भावेषु प्रणयन प्रणयः। वचनादगर्भिण्यपि स्त्री ऋतुकाले प्रियहितोपचारणीया ; यदुक्तम्- "सहचर्यश्चैनां प्रियहिताभ्यां सततमुपचरेयुः" इत्यादि ॥ ८॥
चक्रपाणिः- उपचारसाधनं यथोचितोपचारकरणम् ; अस्येति गृहीतस्य तथा द्वै हृदयस्य च ; तत्र गृहीतगर्मोपचारो यथा--"शङ्किता चेत् गर्भमापन्ना क्षीरमनुपस्कृतं काले काले पिबेत्" इत्यादि।
* उपचारसाधनं ह्यस्याज्ञाने दोषः। ज्ञानञ्च लिङ्गतः। इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only