________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६६
चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् समानयोगक्षेमा हि तदा भवति केचिदर्थेषु माता। तस्मात् प्रियहिताभ्यां गर्भिणी विशेषेणोपचरन्ति कुशलाः। तस्या
हृदय्यस्य च विज्ञानार्थं लिङ्गानि समासेनोपदेक्ष्यामः ॥८॥ द्वैहृदय्यप्रतिकूलाहारविहाराचरितं गर्भ कत्तं नेच्छन्ति। कस्मात् ?-विमानने हीत्यादि। हि यस्माद्विमानने द्विहृदयगर्भाभिलषितानाचरणेऽस्य गर्भस्य विनाशो विकृतिर्वा दृश्यते। तस्मात् तदा द्वहृदय्यकाले माता द्वे हृदयिनी गर्भिणी गर्भेण सह समानयोगक्षेमा केपुचिदर्थेषु गर्भानुपघातकरेषु भावेषु गर्भाभिलषितानुकूलस्वानुकूलाहारविहारादियोगेन क्षेमा मङ्गला भवति। तस्मात् प्रियहिताभ्यां गर्भाभिलाषेण तदभिलषितेन हितेन च गर्भवती कुशला वैद्या उपचरन्ति । सुश्रुतेऽप्युक्तम् -- चतुर्थे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरो भवति। गर्भहृदयप्रव्यक्तभावात् चेतनाधातुरभिव्यक्तो भवति। कस्मात् ? तत्स्थानखात् । तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति । द्विहृदयाश्च नारी द्वहृदयिनीमाचक्षते। द्वै हृदय्यविमाननात् कूब्ज कुणिं खजं जई बामनं विकृताक्षमनक्षं वा नारी सुतं जनयति। तस्मात् सा यद् यदिच्छेत् तत् तस्यै दापयेत् । लब्धदोहदा हि वीर्यवन्तं चिरायुषश्च पुत्रं जनयति। भवन्ति चात्र। इन्द्रियाणांस्तु यान् यान सा भोक्तुमिच्छति गर्भिणी। गर्भावाधभयात् तांस्तान भिषगाहृत्य दापयेत्॥सा प्राप्तदोहदा पुत्रं जनयेत गुणान्वितम् । अलब्धदोहदा गर्भ लभेतात्मनि वा भयम्। येषु येष्विन्द्रियार्थेष द्वैहृदे वै विमानना। प्रजायेत सुतस्यार्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ॥ राजसन्दशने यस्या दोहदं जायते स्त्रियाः। अर्थवन्तं महाभागं कुमारं सा प्रसूयते। दुकूलपट्टकोषेयभूषणादिषु दोहदात् । अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते। आश्रमे संयतात्मानं धर्मशीलं प्रसूयते। देवताप्रतिमायान्तु प्रमूते पार्षदोपमम् । दर्शने व्यालजातीनां हिंसाशीलं प्रमूयते। गोधामांसाशने पुत्रं सुषुप्सु गर्भस्य विनाशो विकृतिति-महता इच्छाविघातेन विनाशः स्वल्पेन च विकृतिः, किंवा गर्भेच्छापूर्विका मातुरिच्छा, तद्विघातेन विनाशो गर्भस्य, सा हीच्छा विहता साक्षात् गर्भसम्बन्धितया सुकुमारतरं गर्भ वातप्रकोपाद विनाशयति ; या तु मातुरिच्छा विहता, सा मातरि वातक्षोभं जनयतीति समानयोगक्षेमे गर्भेऽपि मनाग विकृतिजननाद विकृतिं जनयति ; एतदेव दर्शयति-समान• योगक्षेमा हीत्यादि। योगः सुखहेतुयोगः ; क्षेमः प्रत्यवायपरीहारः, एतौ योगक्षेमौ मातुर्गण समानौ भवतः । केषुचिदर्थेष्वितिवचनादतुल्ययोगक्षेमता च क्वचिद् भवतीति दर्शयति ; तेन नावश्यं मातुर्विकाराः क्षुदादयो गर्भ विकृतिमावहन्ति, गर्भस्य वा मातरीति ; गर्भिणी विशेषेणेति
For Private and Personal Use Only