SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४र्थ अध्यायः] शारीरस्थानम् । १६६५ कालमेवास्य चेतसि वेदनानिबन्धं प्राप्नोति। तस्मात् तदा प्रभृति गर्भः स्पन्दते प्रार्थयते च जन्मान्तरानुभूतमिह यत् किञ्चित् तद् द्वहृदय्यमाचक्षते वृद्धाः। ___ मातृजञ्चास्य हृदयं मातृहृदयेनाभिसम्बद्धं रसहारिणीभिः* संवाहिनीभिः। तस्मात् तयोस्ताभिर्भक्तिः सम्पद्यते। तच्चैव कारणमवेक्षमाणा न हृदयविमानित गर्भमिच्छन्ति कर्त्तम् । विमानने ह्याय विनाशो दृश्यते गर्भस्य विकृतिर्वा । पाय्वादीनि च कर्मेन्द्रियाणि सन्तिष्ठन्ते संस्थावन्ति भवन्ति, तत्कालमेवास्य गर्भस्य शानक्रिययोर्वहिः प्रव्यक्तखाच्चेतसि मनसि वेदनानिबन्धं सुखदुःखनिबन्धं ज्ञानं कर्म च भावं पामोति। एष गर्भ इति शेषः। तस्मात् इन्द्रियसंस्थानेन वेदनानिवन्धप्राप्तितस्तदा तत्कालात् प्रभृति सुखाय स्पन्दते दुःखापनोदनाय प्रार्थयते च सुखार्थ दुःखापनोदनाय, जन्मान्तरानुभूतमिह किञ्चिन्न तु सर्च मिति। तं गर्भ द्वैहृदय्यं द्वे हृदये सम्बद्धे अस्य तत् तथा मातृहृदयेन गभहृदयस्य सम्बन्धात् । ननु कस्माद दैहृदय्यमाचक्षते वृद्धा इत्यत आह-मातृजञ्चेत्यादि । अस्य गर्भस्य यस्मान्मातृजं हृदयं तस्मान्मातृहृदयेनाभिसम्बद्धम् । तन्मातरसहारिणीभिर्मातुराहारजरसवाहिनीभिः संवाहिनीभिर्धमनीभिः, ताभिस्तयोर्मातगर्भयोभक्तिर्भजनं सम्पद्यते। तच्चैव मातुराहारजरसवाहिनीभिर्धमनीभिर्मातगभयोर्भक्तिमेव कारणमवेक्षमाणाः पश्यन्तो भिषजो द्वैहृदय्यविमानितं अभिनिर्वर्त्तन्ते । वेदना सुखदुःखोपलब्धिः ; निबन्धं प्राप्नोतीतीन्द्रियोदयादेष समकालमेव सुखदुःखज्ञो भवतीति वाक्यार्थः । तस्मादिति सुखदुःखसम्बन्धात् । सुखोत्पादनार्थं दुःखपरिहारार्थञ्च स्पन्दते चलति, तथा प्रार्थयते च सुखहेतून जन्मान्तरानुभूतानित्यर्थः ; तद्गर्भहृदयप्रार्थनायुक्तं मातृहृदयं दैहृदयम् ; वृद्धा इति ज्ञानवृद्धा आचक्षते ; द्विहृदयस्य भावो द्वै हृदयम्-मातृहृदयं गर्भहृदयेन समं हृदयद्वयं भवति । ननु गर्भहृदयेन समं हृदयद्वयं भवति; कथं गर्भहृदयं सम्बद्धं भवतीत्याहमातृजमिति । मातृकारणकार्त्तवजम् ; रसवाहिनीभिरिति गर्भपोषणार्थाभिः मातृहृदयगर्भनाड़ीप्रतिबद्धाभी रसवाहिनीभिः ; एतेन यदु गर्भः प्रार्थयते, तत्प्रार्थनया रसवाहिनीभिः हृदयमागतया मातापि तावत् प्रार्थनावती भवति ; एवं मातृप्रार्थनयापि गर्भ प्रार्थनावान् भवति । तयोरिति मातृगर्भयोः ; भक्तिरिच्छा ; ताभिरिति रसवाहिनीभिः ; सम्पद्यत इति मातृहृदयाद गर्भहृदयमित्यर्थः । * रसवाहिनीभिरिति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy