________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६४
चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् क्लव्यं भीरुत्वमवैशारद्य मोहोऽवस्थानमधोगुरुत्वमसंहननं
शैथिल्यं मार्दवं गर्भाशयवीजभागस्तथा युक्तानि चापराणि स्त्रीकराणि, अतो विपरीतानि पुरुषकराणि, उभयभागावयवानि नपुंसककराणि। यस्य यत्कालमेवेन्द्रियाणि सन्तिष्ठन्ते तत्क्लैव्यं स्त्रियाः पुरुषस्य वा मैथुने दृष्यवाभावः, भीरुखश्च । अवैशारद्य मैथुनविद्याविरहः । मोहो मुग्धता। अवस्थानं विश्रामो रताभ्यन्तरे। अधोगुरुखमधःकायावसादपूर्वकसरतम्। असंहननं शरीरदृढ़लाभावः। शैथिल्यमुपस्थशिथिलता।माईवं मृदुभावः। गर्भाशयवीजयोर्भागो गर्भाशयस्य भागो वामभागः, वीजस्य भागः शोणिताधिक्यम् । तथा युक्तानि चापराणीति स्त्रीपुरुषयोः स्त्रीचेष्टिताकारादीनि। अतो विपरीतानि अक्लव्यमभीरुत्वं वशारद्यममोहोऽनवस्थानमधोलघुवं संहतीभावः शैथिल्याभावस्तीत्वं गर्भाशयस्य दक्षिणभागः शुक्राधिक्यं स्त्रीपुंसयोः पुश्चेष्टिताकारादीनि च। उभयभागावयवानि कस्यचित् क्लैव्यं कस्यचिदक्तव्यं कस्यचिद्भीरुवं कस्यचिदभीरुवं कस्यचिदवैशारद्य कस्यचिद्वैशारद्य कस्यचिन्मोहः कस्यचिदमोहः कस्यचिदवस्थानं कस्यचिदनवस्थानं कस्यचिच्छैथिल्यं कस्यचिदशैथिल्यं कस्यचिन्माईवं कस्यचिदमाईवं गर्भाशयस्य मध्यमभागः वीजयोः शुक्रशोणितयोः समभाग इति । तथा पुरुषस्य स्त्रीचेष्टिताकारः स्त्रियाः पुश्चेष्टिताकार इत्येवमादीनि।
यस्य यत्कालमित्यादि। तृतीयमासशेषार्द्ध मारभ्य चतुर्थमासस्य पूर्वाद्धं यावत् यत्कालमेव यस्य गर्भस्येन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियाणि दैववशाद भवति, ततो भावादन्यतरस्य स्त्रीरूपस्य पुरूपस्य वा गर्भस्य उत्पत्तिर्भवति । यदि स्त्रीकरा भावा क्लव्यादयो मूयांसो भवन्ति, तदा स्त्री जायते, विपर्यये पुमानित्यर्थः। अवैशारदंघ मोहः । शैथिल्यमनिविड़संयोगता, यथा-दशणतन्तुविरलवापितपटस्य शैथिल्यम् माहेवन्तु निविड़संयोगस्यापि सहजावयवमाईवम्, यथा-पट्टसूत्रे निरन्तरवापितपटस्य मृदुत्वम् । क्लव्याद्यनवस्थानपर्यन्तं प्रधानसंश्रयम्, शेषं गुणसंश्रयम् । तथा युक्तानीत्यनेन, योनिवीजभागादीनि ग्राहयति । एतेन अधोगुरुत्वादयो रक्ताधिक एव भवन्तीति ज्ञेयम् । तेन "रक्तेन कन्यामधिकेन" इति यदुक्तम्, तदनेन समं न विरुद्धं भवति । विपरीतान्यक्लैन्यादीनीत्यर्थः । उभयभागावयवा इति स्त्रीपुरुषकारका अवयवाः। नपुंसककरणीति नपुंसकनिर्देशोऽन्यक्त. गुणाभिप्रायेण ; तेन प्रथमं नपुसककराणीति अव्यक्तगुणसन्देहाभिप्रायेण प्रयुक्तम्, ततः कानि तानीत्यपेक्षया विशेषपरिग्रहाभयभागावयवा इति पुलिङ्गेन निर्देशो ज्ञेयः । सतिष्ठन्त इति
For Private and Personal Use Only