SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऽर्थ अध्यायः] शारीरस्थानम्। १९६३ एवागावयवाः सन्तिष्ठन्ते, त एव स्त्रीलिङ्ग पुरुषलिङ्ग नपुंसकलिङ्गं वा बिभ्रति ॥ ७॥ ततः स्त्रीपुरुषयोयें वैशेषिका भावाः प्रधानसंश्रया गुणसंश्रयाश्च, तेषां यतो भूयस्त्वं ततोऽन्यतरभावः। तद् यथानियमत एव किं व्यभिचारतो वेत्यत आह-सन्तीत्यादि। नित्यास्ते ये सूक्ष्मशरीरस्था एवागावयवाः सन्तिष्ठन्ते, अनित्या आजन्म मरणान्तं पुनःपुनरागमापायिनः पुरीषादयः केशादयश्च । य एवागावयवाः सन्तिष्ठन्ते संस्थावन्तस्त एवागावयवाः स्त्रीलिङ्गादिकं विभ्रति, न बसंस्थानवन्तः॥७॥ गङ्गाधरः-तत इत्यादि। ततस्तस्माद्धेतोः स्त्रीपुरुषयोमथुनकाले ये वैशेषिका भावाः प्रधानसंश्रयाः पुरुषाश्रिताः पुत्रकराः स्त्रीसंश्रिताः कन्याकराः गुणसंश्रयाः स्त्रीगताः पुत्रकराः पुरुषसंश्रयाः कन्याकरा ये भावविशेषास्तेषां भावानां मध्ये यतो यदीयभावविशेषाणां भूयस्त्वं ततो भूयसा निर्भावविशेषयोरन्यतरभावः स्त्रीपुरुषकर इति शेपः । ननु ते के वैशेषिका भावा इत्यत आह-तद यथेत्यादि। हेतौ। नित्या इति यावच्छरीरभाविणः करचरणादयः। अनित्याश्च न यावच्छरीरभाविणी दन्तादयः। एतेन अनित्यस्वभावाद् दन्तादीनां गर्भादिजायमानत्वान्न नित्यत्वम् । विकृतिरिति अनित्यत्वयुक्तमित्यर्थः । अथ नित्यानित्येषु मध्ये के स्त्रयादिलिङ्ग बिभ्रतीत्याह-तस्येत्यादि । सन्तिष्ठन्त इति यावच्छरीरं तिष्ठन्ति नित्याः सन्तीति यावत्। एतेन य एव नित्या उपस्थादयः, त एव स्त्रीलिङ्गतां पुलिङ्गतां वा बिभ्रति। तत्रोपस्थरूपो नित्यो भावः स्त्रीलिङ्ग शेफश्च, उपस्थलिङ्गाकाररहितञ्च रन्ध्रमानं नपुसकलिङ्गं भवति। किंवा स्त्रिया यलिङ्ग स्तनादि, पुरुषस्य वा श्मश्रुप्रभृति, नपुंसकस्य वा स्तीपुससमानाकारत्वं जातोत्तरकालभावि, तदपि य एव नित्या भावा उरःकपोलप्रभृतयः, त एव कालवशाद बिभ्रतीति वाक्यार्थः। उर एव हि स्तनारम्भकवीजयुक्तं स्त्रिया उत्तरकालं स्तनवद् भवति । एवं कपोल एव श्मश्रुवीजयुक्तः श्मश्रुवान् भवति। न तद्युक्तम् । यतः स्तनश्मश्रुप्रभृतीनां वीजं चेदस्ति शरीरे, तत् किं गर्भात् प्रभृति स्तनादि न जायत इति चेत् ? न, यतो वीजमहिमायम्, य उत्तरकाल एव कार्यं करोति । अथवा न पतितमपि धान्यादि वीजं प्रस्तरे वाङ्करं जनयति। न च स्वभावमुपालम्भमर्हति। यदैवाङ्गा. वयवाः सन्ति, तदैव स्त्रादिलिङ्गं बिभ्रतीत्यादिपाठपक्षे तु व्यक्त एवार्थः। अथ कुमारे शुक्रादौ कारणे स्त्रयादिविशेषो भवतीत्याह-वैशेषिका इति । वैशेषिका विशिष्टाः परस्परव्यावृत्ता इति यावत् । प्रधानसंश्रया इति आत्मसंश्रयाः। गुणसंश्रया इति शुक्रशोणितगतभूतसंश्रयाः । गुणशब्देन हि मूतान्युच्यन्ते। 'यतः' इति सप्तम्यां तसिल। तेन यस्मिन् वैशेषिकभावे भूयस्त्वं For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy