________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Strike
Acharya Shri Kailassagarsuri Gyanmandir
१९६२
चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् एवमस्येन्द्रियाण्यङ्गावयवाश्च योगपदोनाभिनिवर्तन्ते अन्यत्र तेभ्यो भावभ्यो येऽस्य जातस्योत्तरकालं जायन्ते। तद् यथा-दन्ता व्यञ्जनानि व्यक्तीभावस्तथा युक्तानि चापराण्येषा प्रकृतिः, विकृतिः पुनरतोऽन्यथा। सन्ति खल्वस्मिन् गर्भ केचिच्च नित्या भावाः, सन्ति चानित्याः केचित् । तस्य ये संहारार्थ जगत्सम्मितत्वमाह-एवमित्यादि। एतच्च प्रपञ्चेन व्याख्यास्यते खयमेव ॥६॥
गङ्गाधरः-उपसंहरति-एवमस्येन्द्रियाणीत्यादि। अन्यत्र विनेत्यर्थः । ये दन्तादयो वक्ष्यमाणाः। दन्ताः ; व्यञ्जनानि स्तनाधःकुन्तलश्मश्रकक्षलोमाकृतिविशेषाश्च। व्यक्तीभावो बुद्धप्रादीनां रूपादीनां वाक्यादीनां शुक्रादीनां लोमादीनामित्येवमादीनाम्। तथा युक्तानि चापराणि गमनधावनादीनि। एषा प्रकृतिरवैकारिकी। ननु जातदन्तोऽपि जायते इत्यत आहविकृतिरित्यादि। अथास्मिंस्तृतीयमासशेषा? प्रव्यक्तोन्मुखे तूपस्थे शुक्राधिका पुमान् रक्ताधिक्ये स्त्री द्वयोः साम्ये तु नपुंसकमिति यदुक्तं तत् किं कारणं भवतीति लोकसाम्यं दर्शयन्नाह-एवमयमित्यादि। एवमयमिति पञ्चभूतविकारमय. स्वेन लोकसम्मित इति लोकतुल्यः। इह च भूतविकारमयत्वञ्च यच्छरीरस्थोक्तम्, तेन भूतविकारमयत्वमधिकृत्य सादृश्यमुक्तम् । लोक गुरुपयोः साम्यमाध्यात्मिकम्, लोकपुरुषयोः साम्यं पुरुषविचये वक्तव्यम्, तदिहानुक्तमपि “यावन्तो हि" इत्यविशेषणाभिधानेन सूचितं ज्ञेयम् । तेन यावन्तो भावविशेषा आध्यात्मिका वा अन्तरात्मसत्त्वाहङ्कारादयो भौतिका वा मूत्रक्लेदादयः, ते पुरुषगता लोकेनापि संमाना इति ज्ञेयम् । एतच्च लोकपुरुपयोः साम्यं पुरुपविचये वक्तव्यं भविष्यति। एतच्च लोकपुरुषयोः सामान्यकथनं मुमुक्षूणामेवोपयुक्तमिति दर्शयन्नाह-बुधास्त्वेवमित्यादि । बुधाः सम्यगज्ञानवन्तो मोक्षयुक्ता इति यावत्। लोकपुरुष. सामान्यकथनश्च मोक्षार्थमेवेति पुरुषविचये स्वयमेव वक्ष्यति ॥ ५। ६॥
चक्रपाणिः-प्रकृतिं तृतीयमासभवामिन्द्रियाद्यङ्गाभिनिर्वृत्तिमुपसंहरति-एवमस्येत्यादि । युगपदेव यौगपद्यमित्यभिधानम् इन्द्रियैरपि सर्वाङ्गाभिनिन्धुत्तेः समकालतोपदर्शनार्थम्। किं दन्तादयोऽपि तृतीयमासे भवन्तीत्याशङ्कयाह-अन्यत्रेत्यादि। व्यञ्जनानि श्मश्रुस्तनादीनि । व्यक्तीभावः शुक्ररजसोराविर्भावः। तथा युक्तानीति जातोत्तरकालत्वेन स्थूलमांसादीनि। एषा प्रकृतिरिति इन्द्रियाण्यङ्गानि च युगपद् भवन्ति, दन्तादयश्च जातस्यापि चिरेण भवन्तीत्येवंरूपो मनुष्यस्वभाव इत्यर्थः। अन्यथेति कदाचित् सदन्त एव जायते इत्यादिका विकृतिर्मनुष्यस्य । करसाद दन्तादयो गर्भादिजायमानत्वेन नित्यत्वेन नोच्यन्त इत्याह-सन्तीत्यादि। 'खल'शब्दो
For Private and Personal Use Only