SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४थ अध्यायः शारीरस्थानम् । १९६१ रसनं शैत्यं मार्दवः स्नेहः क्लदश्च। पृथिव्यात्मकं गन्धो घ्राणं गौरवं स्थैय्यं मूर्तिश्च। एवमयं लोकसम्मितः पुरुषः । यावन्तो हि लोके भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके इति बुधारत्वेवं द्रष्टुमिच्छन्ति ॥ ६॥ पितृजकेशादिषु च पितुः शुक्रगतामयात्मकं तत् त्रयम्। आत्जेन्द्रियादिषु दर्शनं चक्षुरिन्द्रियं तद्गतरूपं पक्तिः वर्णविशेष आत्मगतानात्मकम् । चक्षुरिन्द्रियप्रसादः वर्णों वीजसम्पच सात्म्यीयाग्नेयम्। शारीररूपं रूपाभिद्धिश्च प्रकाशश्वौष्णाश्चाहारजरसगानयात्मकम्। अथ मातृजखगादिषु रसः शैत्यं माईवः स्नेहः क्लेदश्चेति सर्व मातृशोणितगतावात्मकम् । एवं पितृजकेशादिषु च तत् सर्वम् । आत्मजेन्द्रियादिषु च रसनमिन्द्रियं रसनगतरसः आकृतिः स्नेहमाईवौ चात्मगतावात्मकम् । सात्म्यगतावात्मकन्तु रसनप्रसादः। रसगतावात्मकन्तु शरीराभिनित्यभिप्रोः। शरीररसशैत्यमाई वस्नेहक्लेदा इति सर्वम् । अथ मातृजखगादिषु गन्धगौरवस्थैय्यमूर्तय इत्येतत् सर्च मातृशोणितीयपृथिव्यात्मकम् । तथा पितृजकेशादिषु तत्सर्व शुक्रगतपृथिव्यात्मकम्। आत्मजेन्द्रियादिषु घ्राणमिन्द्रियं तद्गतगन्धगौरवस्थैय्य॑मूत्तयश्चेत्येतत् सर्वमात्मगतपृथिव्यात्मकम् । घ्राणेन्द्रियप्रसादस्तु सात्म्यगतपृथिव्यात्मकः। शरीरगतगन्धगौरवस्थैर्यमूर्तयश्चेत्येतत् सव्वं रसगतपृथिव्यात्मकमिति। एवं शेषाः पाश्चभौतिककार्यगुणा बोध्याः। अस्य गर्भस्यात्मपश्चभूतात्मकत्वेनाङ्गावयवानुक्त्वा शेषार्थोप'स्वच लोहितञ्च" इत्यादिनोक्ताः, त इह न साक्षाद् वक्तव्याः, किन्तु ये त्वग्गता मूर्तिस्नेहमाईवादयः, ते मूतजन्यत्वेनोच्यमानास्त्वचोऽभिधायका भवन्ति। एवं शोणितगतमूतविकारकथनेन शोणितकथनं ज्ञेयम् । त्वगादयो मूतविकारा वक्ष्यमाणा इति विकारसमुदायरूया एव । अङ्गानाञ्च मातृजरूपेग यदभिधानम्, तत् मात्रधीनत्वप्रतीत्यर्थम् । पुनश्चेह मूतजन्यत्वेनाभिधानमङ्गानां क्षये वा वृद्धौ वा सत्यां तत्कारणभूतोपयोगप्रतिषेधाभ्यां वृद्धिक्षयजननानानार्थम् । यदङ्गं यदभूतप्रभवम्, तदनं तदभूतप्रधानेन द्रव्येण वर्द्धते, क्षीयते च तद्विपरीतेन। लाघवं यद्यपि वायो पठन्ति,-"रुक्षः शीतो लघुश्चैव” इत्यादिना, तथापि आकाशालाघवं प्रधानं शेयम्, तेन इहाकाशविकारे पठन्ति। आकाशं हि अत्यर्थसूक्ष्मत्वाचातिलघु। विरेको विच्छेदः। धातुव्यूहनं धातुरचना धातुवर्द्धनञ्च। दृश्यतेऽनेनेति दर्शनं चक्षुरिन्द्रियम्। मूर्तिः काठिन्यम् ।। एतदभूतविकारमयत्वं शरीरस्य लोकमयस्य चेति यजज्ञानम्, तन्मोक्षस्याति परमाभीष्टस्य २४६ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy