SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६० चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् मातृजादयोऽप्यस्य महाभूतविकाराः, तत्रास्याकाशात्मकं शब्दः श्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च । वाय्वात्मकं स्पर्शः स्पर्शनं रौक्ष्यं प्ररणं धातुव्यूहनं चेष्टाश्च शारीर्यः। अनात्मकं रूपं दर्शनं प्रकाशः पक्तिरोभायश्च। अवात्मकं रसो तांश्चैवाझावयवान् लगादीन् पर्यायान्तरेण नामान्तरेणापरांश्चाङ्गावयवाननुव्याख्यास्यामः ॥५॥ ___ गङ्गाधरः-तत् किमित्याह-मातृजादयोऽपीत्यादि। मातृजास्वगादयो येऽङ्गावयवाः खुड्डीकायामुक्तास्तत्र वगादिषु ये शब्दलाघवसौक्ष्म्यशुषिरादयस्तत् सव् शोणितिकाकाशात्मकम् । एवं पितृजाश्च येऽङ्गावयवाः केशश्मश्रुनखादय उक्तास्तेषु च ये शब्दलाघवसौक्ष्माविवेकास्तत् सर्वं पितुः शुक्रगाकाशात्मकम् । एवमात्मजाश्च येऽङ्गावयवा इन्द्रियादय उक्तास्तेषु मध्ये श्रोत्रेन्द्रियं स्वरविशेषश्चात्मजाकाशात्मकम् । वाय्वात्मकमित्यादि । चत्वारि बगिन्द्रियादीनि वायवाद्यात्मकानीन्द्रियाणि तत्र स्पर्शने स्पर्शश्चक्षुषि रूपः, रसने रसो, घ्राणे गन्धश्च वाय्वाद्यात्मकाः। पञ्च कम्भेन्द्रियाणि चात्मजपञ्चभूतात्मकानि तेषु लाघवादीनि च सात्म्यजाश्च ये खारोग्यादयस्तेषु मध्ये इन्द्रियप्रसादस्तु य उक्तस्तत्र श्रोत्रेन्द्रियप्रसादः सात्म्यरसगाकाशात्मकः। तथा रसजा ये शरीराभिनित्त्यभिटद्धी उक्त, तयोः शब्दलाघवसौक्षम्यशुषिराभिनित्यभिवृद्धी, एतद्द्वयं रसगताकाशात्मकम् । एवं सत्त्वजा ये भक्त्यादयस्तेषु यथासम्भवं शब्दादिगाम्भीर्यादिकं सत्त्वकार्यमिति केचित्। एवं वाय्वात्मकमिति। खगादिमातृजागावयवेषु स्पर्शरोक्ष्यधातुव्यूहनचेष्टा इत्येतत् सर्च मातृशोणितीयवाय्वात्मकम् । पितृजकेशादिषु च तत् सर्च पितुः शुक्रगतवाय्वास्मकम्। आत्मजेन्द्रियादिषु चात्मगतवाय्वात्मकं स्पर्शनमिन्द्रियं प्राणापानचेष्टापरणं रौक्ष्याकृतिरित्येतत् सर्वम् । स्पर्शनेन्द्रियप्रसादस्तु सात्म्यीयवाय्वात्मकम्। शारीराभिनिट त्तिस्तदभिटद्धिश्च तयोः स्पशेरौक्ष्य धातुव्यूहनशरीरचेष्टाश्च सर्व रसजवाय्वात्मकम्। अनात्मकमित्यादि। मातृजलगादिषु रूपं प्रकाश औषण्यश्च मातृशोणितिकानात्मकम् । निवृत्तिरिति सिद्धान्तः । केचिदिति न सर्वे। तत्र मातृजाद्यङ्गकथनेन शब्दादयो य इह मूतविकारत्वेन वक्ष्यन्ते, ते न सर्वं प्रोक्ताः, किञ्च केचिदेव स्वगादयः। पर्यायान्तरेणेतिवचनात् ये मातृजादयः * विरेकरचेति चकः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy