SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५६ चरक-संहिता। : वनिदानम् द्विविधमाचक्षते निजागन्तुविशेषाच। तत्र निजं द्विविधं वातश्लैष्मिकादिज्वरे घागमात् । वातज्वरे विषारम्भविसर्गित्वेन साङ्गग्रहाभावाचाव्याप्ति शङ्कया। उत्सर्गखालक्षणस्यास्य पैत्तिकादिज्वरलक्षणेन विशेषण बाधितत्वादिति, तन्नेत्यन्ये, विधावुत्सर्गापवादभावस्य स्वीकारेण लक्षणे तदस्वीकारात् । ब्रुवते च स्वेदोऽग्निस्तस्यावरोधो वहिनिरसनेन मन्दवम् । वातज्वरे वायोश्चलत्वेनारम्भविसर्गयोवषम्यमिति सर्व्वदेहगतदोषस्य ज्वरारम्भकत्वेनानुत्त्याऽस्फुटसङ्गिग्रहणमस्त्येवेति नाव्याप्तिः। तदपि न मनोरमम् । अभिघाताद्यागन्तुज्वरे जठराग्नेरपगमस्य ज्वरोत्पत्तिकालेऽभावात् । देहेन्द्रियमनस्तापानाञ्च सूक्ष्मकालव्यवधानेन शारीरमानसज्वरे योगपद्या. भावाच । न हि मूक्ष्मकालव्यवधानेनावश्यम्भावित्वं सन्तापस्य योगपदा भवति । तस्मात् स्वेदावरोध इत्यादिविलक्षणो न ज्वरः । किन्तु सन्तापलक्षण इति । तत्र चैवञ्चेत् भिषक् पृच्छाते, कोऽयं व्याधिरिति ; पृष्टश्चैवं भिषक् ब्रूयादस्यातुरस्य अयं व्याधिज्वरः देहेन्द्रियमनस्तापिखात् यथा दाहो दहतापी यथा च दाहो देहं तापयति तथायं देहेन्द्रियमनांसि तापयति तस्मादयं ज्वर इत्येकपक्षकसाध्यकखात् व्यतिरेकेण दृष्टान्तः एवं ज्वरत्वेन स्थापितं तमेनं रोगं चेद्भिषक् पृच्छाते कोऽयं ज्वर इति पृष्टश्चैवं भिषक् ब्रूयाज्ज्वरोऽयं वातजो विषमारम्भविसर्गादिलक्षणखात, यथा पित्तजः यथा च पित्तजज्वरः कटुकास्यखादिलक्षणस्तथा चायं विषमारम्भविसगिखादिलक्षणस्तस्माज्ज्वरोऽयं वातज इत्येवमसाधारणलक्षणसहचरितसव्यभिचारिलक्षणेनापि सामान्यतो विशेषतश्वानुमीयेत। एवं सत्र । __सामान्यप्रकृतिमुक्त्वा ज्वरस्य प्रकृत्यन्तरमाह-तमेवेत्यादि। तमेव सन्तापलक्षणमेव ज्वरमभिप्रायविशेषात् द्विविधमाचक्षते। शीताभिप्राय उष्णाभिप्रायश्चेति द्विविधो ज्वरो भवति । तत्र वातात्मक उष्णाभिप्रायः, पित्तात्मकः शीताभिप्रायः ; कफात्मक उष्णाभिप्रायः। वक्ष्यते च चिकित्सिते-वात. पित्तात्मकः शीतमुष्णं वातकफात्मकः। इच्छत्युभयमेतत् तु ज्वरो व्यामिश्रलक्षणः। योगवाहः परं वायुः संयोगादुभयाथकृत् । दाहकृत् तेजसा युक्तः शीतकृत् सोमसंश्रयात् । इति । व्यामिश्रलक्षणः सान्निपातिकः। प्रकृत्यन्तरमाह-निजागन्तुविशेषाच्चेति। चकाराद् द्विविधमाचक्षते इत्यनुवर्तते। चक्रपाणिः---निजागन्तुविशेषाच्च द्विविधमिति सम्बन्धः । निजं द्विविमित्यादौ द्वैविध्यं For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy