SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः निदानस्थानम्। १२५५ कर्मणा साधारणेन चोपक्रम्यत इत्यष्टविधा ज्वरप्रकृतिरुक्ता ॥१६॥ ज्वरस्त्वेक एव सन्तापलक्षणः, तमेवाभिप्रायविशेषाद् वक्ष्यमाणविभिन्नोपक्रमवाच्च दोपजसप्तज्वरतो भिन्नः। विशिष्टसमुत्थानवन्तु वातादिदोषाभिघातादिकं स्फुटम् । नन्वस्य कश्वोपक्रम इत्यत आहकम्मणेत्यादि । चकारात् स इत्यनुवत्तते । स चाष्टमः सप्तविधदोषज्वराद्विशिष्ट आगन्तुज्वरः कर्मणा साधारणेन देवव्यपाश्रययुक्तिव्यपाश्रयोभयेण कम्मेणा उपक्रम्यते भिपजेति शेषः। नन्वेतेऽष्टौ ज्वराः किमुपादाना इत्यत आहइत्यष्टेत्यादि। प्रकृतिरुपादानं सा वातादिरूपा ॥१६॥ गङ्गाधरः-नन्वष्टविधप्रकृत्या किमष्टस्वरूपं ज्वराणामुक्तरूपेण किमन्यथान्यदस्तीत्यतः । सामान्यतः स्वरूपमाह-ज्वर इत्यादि। एक एवेति ज्वरस्यैकमेव स्वरूपं सन्तापलक्षणत्वं सम्वेषामेव ज्वराणां सन्तापः शरीरोत्तापश्चिह्नम्। न ह्यन्येषां रोगाणां चिह्न सन्तापोऽस्ति। दाहाख्यरोगस्य तु शरीरे स्वभावोष्मानतिरिक्तोष्मत्वे दाहमात्रलक्षणं ज्वरस्य तु स्वभावोष्मातिरिक्तदेहोष्मलक्षणमिति बोध्यमथवा सन्तापो देहेन्द्रियमनस्तापस्तत्र देहतापो दहस्य स्वाभाविकोष्माधिकोष्मा। इन्द्रियताप इन्द्रियाणां वैकल्यम् । मनस्तापो वैचित्तामरतिगानिमेनसस्तापलक्षणमिति, ईदृशश्च सन्तापो न दाहाख्यः तेन तन्निरस्तम् । स्वेदावरोधः सन्तापः सर्लाङ्गग्रहणं तथा । युगपद् यत्र रोगे च स ज्वरो वपदिश्यते। इति सुश्रुतवचनं यदिदं केचिद व्याचक्षते स्वेदावरोधो धर्मनिरोधः सन्तापो निरुक्तः। सर्लाङ्गग्रहणं सर्लाङ्गवेदना । युगपदिति मिलितलक्षणत्रयमिदं यत्र स ज्वरः, प्रत्येक शो व्यभिचारात् । स्वेदावरोधः कुटयूर्वरूपे। सन्तापो दाहाख्ये । सर्लाङ्गग्रहणं सर्वाङ्गिवातरोगे। इति व्याखानञ्चेदं अविद्वान् कश्चिदाह । स्वेदावरोधः सन्तापः साङ्गग्रहणं तथा । युगपद यत्र रोगे च स ज्वरो व्यपदिशते। इति । तत्र पुनः पैत्तिक विज्ञपस्तु “साधारणेन कर्मणा चोपचर्यते' इति वचनेनैवात्र कथ्यते ; साधारणेनेति दैवयुक्तिव्यपाश्रयेण ; दैवव्यापाश्रयं हि बलिमङ्गलहोमादि, युक्तिव्यपाश्रयं हि लध्वशनापतर्पणयवागूकषायपानादि। प्रकृतिरुक्त ति स्वभावोऽपि वातादिज्वराणां निदानावपाहित उक्त इत्यर्थः ॥ १६ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy