________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५४ चरक-संहिता।
. ज्वरनिदानम् चाराभिशापजौ तु सन्निपातेनानुबध्यते। स सप्तविधात् ज्वराद विशिष्टलिङ्गोपक्रमसमुत्थानवाद विशिष्टो वेदितव्यः, दोषजानां सामान्यलक्षणं वोध्यम् । एवमन्यत्राप्युक्तं-मिथ्याहारविहारस्य दोपा ह्यामाशयाश्रयाः। वहि निरस्य कोष्ठाग्निं ज्वरदाः स्य रसानुगा इति । शेपं सुगमम् । __ ननूत्तरकालं निर्दोषैरनुबन्ध्यत्वेनायं कथमष्टम उच्यते, इत्यत आहस सप्तेत्यादि । सप्तविधादिति वातादिदोषजसप्तविधात् विशिष्टलिङ्गलात् विशिष्टोपक्रमसात् विशिष्टसमुत्थानवाच विशिष्टः पृथगेव । दुष्टशोणिताधिष्ठानवातानुबन्ध्योऽप्यभिघातजो ज्वरो न वातज्वरलिङ्गः परन्तु ज्वरचिकित्सितेतत्राभिघातजो वायुः प्रायो रक्तं प्रदूषयन् । सव्यथाशोथवैवर्णा सरुजं कुरुते ज्वरम् । इत्युक्तलिङ्गत्वेन वातज्वरात् भिन्न एव । तथाभिषङ्गजेषु ज्वरेषु कामशोकभयजो वातानुबन्धोऽपि न वातज्वरलिङ्गः, परन्तु-कामजे चित्तविभ्रशस्तन्द्रालस्यमभोजनम् इति लिङ्गत्वेन कामजज्वरो भिन्नः-कामाद् भ्रमोऽरुचिर्दाहो हीनिद्राधीधृतिक्षय इत्यपरोक्तलिङ्गलाद्वा । तथा शोकजो ज्वरो न वातज्वरलिङ्गः किन्तु प्रलापमात्रलिङ्गखात् ततो भिन्न एव । एवं भयजो ज्वरो न वातज्वरलिङ्गः किन्तु प्रलापमात्रलिङ्गखात् ततो भिन्न एव । एवं क्रोधजो ज्वरः पित्तानुबन्धोऽपि न पित्तज्वरलिङ्गः, परन्तु-क्रोधात् कम्पः शिरोरुक च प्रलापो भयशोकज इत्यपरोक्तकम्पशिरोरुकमलापलक्षणखात् पित्तज्वरतो भिन्न एव । तथा भूताभिषङ्गजो ज्वरःसन्निपातानुवन्ध्योऽपिन सन्निपातज्वरलिङ्गः, परन्तु देवादिभूतलिङ्गहास्यरोदनकम्पादिखात् ततो भिन्नः। विषकृतस्तु ज्वरो दोषत्रयानुबन्धोऽपि न त्रिदोषज्वरलिङ्गः, परन्तु-श्यावास्यता विषकृते तथातिसार एव च। भक्तारुचिः पिपासा च तोदश्च सह मूच्छया। इति लक्षणलात् ततो भिन्नः। ओषधी. गन्धघ्राणजस्तु त्रिदोषानुवन्धोऽपि न त्रिदोषज्वरलिङ्गः, किन्तु-ओषधीगन्धजे मूर्छा-शिरोरुग्वमथुस्तथा इत्युक्तलिङ्गखात् भिन्न एव । अभिचाराभिशापजो तु त्रिदोषानुबन्धावपि न त्रिदोषज्वरलिङ्गो, परन्तु-अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते। इति लिङ्गलाद भिन्नावेवेति । अथ अत ऊई चिकिसिते च षङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः ॥” इति ; भूताभिपङ्गे तु यद्यपि त्रिदोपप्रकोप उक्तस्तथापि तत्र वातपित्तयोरेवैतदवचनात् प्राधान्यम्। आगन्तोनिजाद भेदमाह- स इत्यादि। विशेषलिङ्गता आगन्तोर्व्यथापूर्वव्याख्यानव्याकृता ; समुत्थानविशेषोऽपि अभिघातादिरुक्तः ; उपक्रम
For Private and Personal Use Only