________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः . निदानस्थानम् ।
१२५३ भूत्वा पश्चान्निजदोषरनुबध्यते। तत्राभिघातजो वायुना दुष्टशोणिताधिष्ठानेन, अभिषङ्गाजः पुनर्वातपित्ताभ्याम्, अभिक्षणादिकं केवलो भूखा दोषासम्बन्धो भूखा पश्चानिजैः शारीरैरभिघातादिखस्वनिदानकुपित येथासम्भवैदोषैर्वातादिभिरनुबध्यते । इति वातादयो दोषा आगन्तुज्वरेऽनुवन्धा अनुबन्ध्यस्तु अभिघातादिरिति व्याधेरागन्तुहेतुप्राधान्याद व्याधिहवभिघाताभिषादीनां विशेषेण चिकित्सा कार्या वाताद्यविरोधेन । उक्तं हि अनुबन्ध्यो विशेषेण चिकित्स्योऽनुबन्धाविरोधेनेति । नन्वभिघातादीनां कतमजो ज्वरः केन दोषणानुबध्यते इत्यत आह-तत्रेत्यादि । तत्राभिघातादिजेषु ज्वरेषु मध्येऽभिघातजो ज्वरो दुष्टशोणिताधिष्ठानेन दण्डाद्यभिहननेन दुष्ट शोणितमधिष्ठानं यस्य तेन वायुना न तु केवलेन वायुनानुबध्यते इत्यनुवत्तते तत्परेण च युज्यते। अभिषङ्गज इति कामशोकभयक्रोधज एव तत्र भयान्तजो वातेन क्रोधजस्तु पित्तेन । अभिचाराभिशापो खिति तुशब्दो भिन्नक्रमेऽनुक्तसमुच्चये च, तेन भूताभिषङ्गजो विषकृतश्च अभिषङ्गज्वरोऽभिशापज्वरश्च सन्निपातेनानुबध्यते इत्यों बोध्यः। वक्ष्यते हि चिकित्सिते। कामशोकभयक्रोधेरभिषक्तस्य यो ज्वरः। सोऽभिषज्वरो शेयो यश्च भूताभिषङ्गजः। तथा, विपक्षानिलस्पर्शान तथान्यविषसम्भवैः । अभिषक्तस्य चाप्याहुज्वरमेकेऽभिषजम् ॥ इति । अत्रोषधिगन्धजज्वरस्यान्तर्भावस्तेन न न्यूनखम्। अथैषां दोषागन्तुजानामष्टानां ज्वराणामेकविधसम्प्राप्त्यभावादेकमेव सम्प्राप्तिलक्षणं न कृखा पृथक् पृथक् कृतमित्यवधेयम् । दोपजानान्वेकविधा सम्प्राप्तिभङ्गया व्याख्याता तेन, ज्वरं कुय्युः प्रकुपिता दोषास्त्रामाशयं गताः। रसं सन्दृष्य सन्दृष्य वह्नि कृखा वहिस्तथा इति । ज्वरे व्यथैव पूर्वरूपमिति वदन्ति ; रूपन्तु यदेव ज्वरस्य प्रात्यात्मिकं सन्तापरूपम्, तदेव वातज्वरादिलक्षणरहितं बोद्धव्यं प्रथमतः, उत्तरकालीनदोपानुबन्धे तु यथावक्ष्यमाणदोषलिङ्गान्येव भवन्ति ; अपम इति वचनेनाभिघातादिहेतुचतुझ्ययोगप्राप्त चातुर्विध्यं निषेध्य व्यथापूर्वकत्वेनैकरूपयोगादेकविधत्वं चतुर्णा दर्शयति ; चातुर्विध्ये ह्यागन्तो रमत्वम्, नवमत्वादयोऽपि स्युः । किञ्चित्कालमिति स्तोककालम् ; केचित् 'यहम्', अन्ये 'सप्ताहम्' आहुः ; आगन्तौ सप्ताहादूद्ध दोषलिङ्गानि भवन्तीति दृष्टम् ; तस्य यस्यागन्तोर्यादृशो दोषानुबन्धोऽस्ति, तमाह-तत्राभिघातेत्यादि। वातपित्ताभ्यामिति कश्चिद् वातेन, कश्चित् पित्तेन, कश्चिद् पातपित्ताभ्याम् ; वचनं हि---“कामशोकभयाद वायुः क्रोधात् पित्तं त्रयो मलाः। भूताभि
For Private and Personal Use Only