________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५२ चरक-संहिता।
, ज्वरनिदानम् अभिघाताभिषङ्गाभिचाराभिशापेभ्य आगन्तुहि व्यथापूर्वोऽष्टमो ज्वरो भवति। स किञ्चित्कालमागन्तुः केवलो विकृतिविपमसमवायारब्धं तद् द्वान्टिक ज्वरं विद्यात् । एवं वातादिजानां त्रयाणां ज्वराणां प्रत्येकत उक्तानां लिङ्गानां मिश्रीभावमात्रदर्शनात् तदतिरिक्तलिङ्गविशेषादशनात् प्रकृतिसमसमवायारब्धं सान्निपातिकं ज्वरं विद्यात् । मिश्रीभावस्य तदतिरिक्तलिङ्गविशेषस्य च दर्शनात् तु विकृतिविषमसमवायारब्धं सान्निपातिक ज्वरं विद्यात्। एतेनैतद् उक्तं भवति-प्रकृतिसमसमवायारब्धे द्वन्द्वजे सान्निपातिके वा व्याधौ प्रकृतिभूतयोद्धयोदोषयोः प्रकृतिभूतानां त्रयाणां वा दोषाणां स्वस्वकार्य्यरूपाप्येव लिङ्गानि भवन्ति न तु अतिरिक्तानि। विकृतिविषमसमवायारब्धे तु तानि च तत्तद्दिशस्रिकस्य वा दोषस्य कारणवैचित्रयात् कोपविशेषात् विकृतिविशेषात् संयोगतो दोषाणां स्वस्वकर्माणि मिलिखा परिणम्यासमानजातीयानि लिङ्गानि भवन्तीति । अत्र विशेषशब्दो भिन्नवाचकः ॥१५॥
गङ्गाधरः-अथाष्टमागन्तुजज्वरनिदानादीन्याह-अभिघातेत्यादि। अभिघातोऽभिहननं शस्त्रदण्डमुष्टिलोष्ट्रादिभिः। अभिषङ्गो देवादीनां भूतानां कामादीनाञ्च सम्बन्धः। अभिचारः श्येनादियागकृतः सर्वपादिना लौहस्त्र चा विपरीतमन्त्रे होम इति । अभिशापो गुरुटद्धसिद्धब्राह्माणादीनामनिष्टाभिशंसनम् । एभ्यश्चतुभ्यः आगन्तुभ्य आगन्तुजोऽष्टमो ज्वरो भवति ।
ननु किमभिघातादिभ्यो वातादयः प्रकुपिताः पूर्वोक्तयैवानुपूा ज्वरमभिनिवेत्तेयन्तीत्यत आह-व्यथापूर्व इति । हिशब्दो हेवर्थे । व्यथा दुःखमभिघातादिजं तदेव पूर्वमग्रे यस्य न तु ततो दोषकोपः पूज्वं यस्य स तथा। ननु किमागन्तुर्जन्मकालावधि यावत्कालं दोषासम्बन्ध एवेत्यत आहस किञ्चिदित्यादि। स व्यथापूचों जात आगन्तुज्वरः किश्चित्कालं
चक्रपाणिः-आगन्तुज्वरमाह-अभिघातेत्यादि। अभिघातो लगुड़ायभिघातः ; अभिपङ्गः कामाघभिषङ्गः ; अभिचारोऽथर्वमन्त्रादिः ज्वरकरः ; अभिशापस्तु गुरुसिद्धाद्यभिशपनर ; एतत् प्रधानत्वेन चतुर्विधं कारणमिहोक्तम् ; तेन ओषधिगन्धभूताभिषङ्गदुष्टग्रहनिरीक्षणादयोऽप्यागन्तुज्वरहेतवो बोद्धव्याः ; किंवा अभिघातग्रहणेन शरीराभिहननवाचिनोऽसात्म्यगन्धादयो ग्राह्याः ; अभिषङ्गेण तु भूताभिषङ्गादयः ; व्यथापूर्वमिति आगन्तो प्रथमं व्यथा भवति, पश्चात् दोषानुबन्धकृतानि लक्षणानीति दर्शयति ; किंवा 'व्यथापूर्वम्' इति वचनात् आगन्तौ
For Private and Personal Use Only