________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः निदानस्थानम्।
१२५१ ते प्रकुपितास्तयैवानुपूर्वा ज्वरमभिनिवर्तयन्ति। तत्र यथोक्तानां ज्वरलिङ्गानां मिश्राभावविशेषदर्शनात् द्वान्द्विकमन्यतमं ज्वरं सान्निपातिकं वा विद्यात् ॥ १५ ॥ सलिलानलयोरिव विरोधात् । युगपत् प्रकोपासम्भवो यथा तीक्ष्णोष्णाम्लकटगुणस्य पित्तस्य रुक्षशीतलध्वादिगुणस्य वातस्य गुरुशीतमृदुस्निग्धस्तिमितपिछिलगुणस्य कफस्य परस्परं गुणविरोधाच वह्निजलयोरिव परस्परोपघातात् मिलिबैककार्यारम्भकवं नोपपद्यते, तत् कथं द्वन्द्वसन्निपातविकारसम्भव इति ? विषमाशनादीनां यथायोग्यं प्रभावात् द्वन्द्वसन्निपातदोपकोपकवं बोध्यम्। अन्यथा पञ्चमहाभूतानामपि परस्परविरुद्धगुणवात् जगदारम्भानुपपत्तिश्च । दृढ़वलेन बन्यथा उपपादयिष्यते । बिरुद्धरपि न खेते गुणघ्नन्ति परस्परम्। दोषाः सहजसात्म्यवाद घोरं विषमहीनिव ॥ इति ।
द्वन्द्वसन्निपातज्वराणां सम्प्राप्तिमाह-ते प्रकुपिता इत्यादि । ते द्वन्द्वाः सवें वा त्रयो दोपाः। तयैवानुपूव्येति वातादुाक्तसम्प्राप्त्यनुरूपया, तथाच ते यदा प्रकुपिताः प्रविश्यामाशयमुष्मणा सह मिश्रीभूयाद्यमाहारपरिणामधातु रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानादुप्माणं वहिरं निरस्य केवलं शरीरमनुपद्यन्ते तदा ज्वरमभिनिव्वेत्तयन्तीत्यर्थः ।
द्वन्द्वसन्निपातज्वराणां लिङ्गान्याह--तत्रेत्यादि। तत्र द्वन्द्वसन्निपातज्वरेषु मध्ये प्रत्येकश उक्तानां वातादिसम्भवज्वरलिङ्गानां मिश्रीभावविशेषदर्शनात् द्वान्द्विकमन्यतमं ज्वरं विद्यात्। ययोरेव वातादिजयोद्धयोज्वरयोः उक्तानामेव लिङ्गानां मिश्रीभावे सत्येकैकजाद विशेषरूपदर्शनात् पृथगजेभ्यो भिन्नरूपदर्शनाच्च द्वान्द्विकमन्यतमं तदद्वातपित्तादिद्वन्द्वेन प्रकृतिसमसमवायारब्धं तद् द्वान्दिकं वरं विद्यात् । ययोर्वातायोः द्वयोः ज्वरयोरुक्तानां लिङ्गानां विपमारम्भिखादीनां मिश्रीभावस्य ततोऽतिरिक्तलिङ्गविशेषस्य च दर्शनं तवातपित्तादिप्रत्येकज्वरोक्तानां तवातायोः द्वयोज्वेरयोलिङ्गानां तदतिरिक्तलिङ्गानाञ्च दर्शनात् । तद् वातपित्तादिद्वन्द्वेन न क्रमेणेत्यर्थः। वरलिङ्गानामित्यादौ मिश्रीभावविशेषा वातपित्तलिङ्गं वातश्लेष्मलिङ्ग वा पित्तश्लेष्मलिङ्ग वा ; अन्यतममिति वातपित्तज्वरादिकम् ॥ १५ ॥
For Private and Personal Use Only