________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५६
चरक-संहिता। (महतीगर्भावक्रान्तिशारीरम् स तु सर्वगुणवान् गर्भत्वमापन्नः प्रथमे मासि संमूर्च्छितः गङ्गाधरः-एवं सर्वगुणवान् गर्भवमापन्नः सन् वक्ष्यमाणक्रमेणानमय एष स्थूलश्चतुर्विंशतिधातुकः पुरुषो भवति। उक्तञ्चैवं तैत्तिरीयोपनिषदि ब्रह्मानन्दवल्ल्याम्-तस्माद्वा एतस्मादात्मन आकाशः-सम्भूतः, आकाशाद्वायुः, वायोरग्निः, अग्न रापः, अयः पृथिवी, पृथिव्या ओषधयः, ओषधीभ्योऽन्नम्, अन्नाद् रेतः, रेतसः पुरुषः, स एवात्र यः पुरुषोऽन्नरसमयः। तस्येदमेव शिरोऽयं दक्षिणः पक्षोऽयमुत्तरः पक्षोऽयम् आत्मा इदं पुच्छ प्रतिष्ठा । तदप्येष श्लोको भवति। अन्नाद्वै प्रजा जायन्ते, याः काश्च पृथिवीं श्रिताः। अथान्नेन जीवन्ति अथैनदपि यन्तादः। अन्नं हि भूतानां ज्येष्ठं, तस्मात् सव्वौ पधमुच्यते । सर्वं वै ते अन्नमाप्नुवन्ति, येऽन्न ब्रह्मोपासते। अन्नाद भूतानि जायन्ते जातान्यन्नेन वर्द्धन्ते। अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते। तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तरात्मा प्राणमयस्तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य प्राण एव शिरो व्यानो दक्षिणः पक्षः अपान उत्तरः पक्ष आकाश आत्मा। पृथिवी पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति । प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये। प्राणो हि भूतानामायुस्तस्मात् सायुषमुच्यते। सव्वमेव त आयुयेन्ति ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुस्तस्मात् सर्वायुषमुच्यते। तस्यैष एव शारीर आत्मा यः पूर्वस्य । तस्माद्वा एतस्मात् प्राणमयादन्योऽन्तर आत्मा मनोमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव । तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य यजुरेव शिर ऋग्दक्षिणः पक्षः सामोत्तरः पक्ष आदेश आत्मा अथवा ङ्गिरसः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चन ॥ तस्यैष एव शारीर आत्मा यः पूर्वस्य । तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य श्रद्धैव शिर ऋतं दक्षिणः पक्षः सत्यमुत्तरः पक्षो योग आत्मा महः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति। विज्ञानं यक्ष तनुते कर्माणि तनुतेऽपि च। विज्ञानं देवाः सर्वे ब्रह्मज्येष्ठमुपासते। विज्ञानं ग्रहणक्रम आगमसिद्ध एव, नात्र युक्तिस्तथाविधा हृदयङ्गमास्ति । एतच्च मूतग्रहणं लघुनैव कालेन भवतीति दर्शयन्नाह-सर्वमित्यादि ॥४॥
For Private and Personal Use Only