________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्र्थ अध्यायः] शारीरस्थानम् ।
१९५५ यथा प्रलयात्यये सिस्मृतभूतान्यक्षरभूतः सत्त्वोपादानं ७ पूर्वतरमाकाशं सृजति, ततः क्रमेण व्यक्ततरगुणान् धातून् वाय्वादींश्चतुरः; तथा देहग्रहणेऽपि प्रवर्त्तमानः पूर्वतरमाकाशमेवोपादत्ते, ततः क्रमेण व्यक्ततरगुणान् धातून् वाय्वादींश्चतुरः। सर्वमपि तु खल्वेतद् गुणोपादानमणना कालेन भवति ॥ ४॥ नन्वयमार्त्तवसंसृष्टे शुक्रे पूर्व प्रवर्तमानः कि कुरुते इत्यत आह–स इत्यादि। स हेवादिपर्यायवाच्यश्चेतनाधातुः सत्त्वकरणः पूर्वमार्त्तवसंसृष्टशुक्रे प्रविष्टो गुणग्रहणाय प्रवर्त्तमानः गुणोपादानकाले सत्त्वं रजोबाहुल्येन विकुर्वन् रजोवहुलेन तेन अन्येभ्यो गुणिभ्यो वाय्वादिभूतेभ्यः पूर्वतरं पूव्वतममन्तरीक्षं शब्दगुणवदप्रतीघातलक्षणं स्वसहचरवीनधर्मसूक्ष्मदेहस्थाकाशं निष्क्रिय संमृज्य सरूपमेव शब्दगुणमप्रतीघातलक्षणमाकाशमुपादत्ते सृजति। अत्र दृष्टान्तमाह-यथेत्यादि। प्रलयात्यये प्रलयावसाने भूनानि प्राणिनः सिसृक्षुरक्षरभूतो ब्रह्मा नारायणाख्यः सुप्तोत्थितः प्रतिबुद्धः पूर्व सत्त्वं मनः सदसदात्मकं सृष्ट्वा सत्त्वोपादानं तन्मनःप्रकृतिक पूर्वतरमाकाशं सृजति। ततः क्रमेणेत्यादि स्पष्टम्। नन्वेवमन्तरीक्षादिभूतोपादानं कियद्भिः कालैरित्यत आह-सवेमपि खित्यादि। एतदन्तरीक्षादिपश्चभूतरूपेण शब्दादिगुणोपादानमणुना परमाणुकालेन भवत्यात्मन इति ॥४॥ गृह्णाति भूतानीति ग्रहणम्। एतैः पर्यायैरात्मनोऽभिधेयस्येतरपदार्थोपकार्यत्वेनाश्रयत्वं प्रसिद्ध दर्यते। पूर्वतरं प्रथममेव । अन्येभ्यो गुणेभ्य इति वाय्वादिभ्यः। अत्र गर्भे भूतग्रहणक्रमे दृष्टान्तमाह -यथेत्यादि। प्रलयस्य महाप्रलयस्यात्यये इति सर्ग इत्यर्थः। सिसृक्षुरिति स्रष्टुमिच्छुः। भूतानि आकाशादीनि। सत्त्वोपादान इति मनःकरणः। महाप्रलये हि विकारस्य प्रकृतौ लयात् प्रकृतिपुरुषावेव परमव्यक्तरूपो तिष्ठतः। ततश्च सर्गारम्भे प्रकृतेर्महदादिः प्रपञ्च उत्पद्यते क्रमेण । तत्र प्रथममाकाशमुत्पद्यते, ततो वारवादीनि व्यक्तानीति सांख्यसिद्धान्तः । आकाशस्य जन्यत्वं सांख्यमतेनैव ज्ञेयम्। देहग्रहणेऽपीति गर्भस्वरूपग्रहणेऽपीति । उपादस इति शुक्रशोणितगतमाकाशमाकाशमयतया स्वीकरोति। व्यक्ततरगुणानिति आकाशमेकगुणमपेक्ष्य शब्दस्पर्शगुणो वायुर्व्यक्ततरः, तमपेक्ष्य शब्दस्पर्शरूपगुणं तेजोव्यक्तनरमित्यादि। अयञ्च भूत
* सत्त्वोपादान इति चक्रः ।
For Private and Personal Use Only