SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९५४ चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् प्रवर्तते। स हि हेतुः कारणं निमित्तमक्षरं कर्ता मन्ता बोधयिता बोद्धा द्रष्टा धाता ब्रह्मा विश्वकर्मा विश्वरूपः पुरुषः प्रभवोऽव्ययो नित्यो गुणी ग्रहणं प्राधान्यमव्यक्तं जीवो ज्ञः प्रकुलश्चेतनावान् प्रभुश्च भूतात्मा चेन्द्रियात्मा चान्तरात्मा चेति । स गुणोपादानकालेऽन्तरीक्षं पूर्वतरमन्येभ्यो गुणेभ्य उपादत्ते । इच्छाद्वेषप्रयत्नसुखदुःखबुद्धिस्मृतिधृतिग्रहणाय वायुनाभिप्रेय्यमाणः प्रवर्तते तत्रात्तेवसंसृष्टशुक्रे गमोशयं प्रविश्यावतिष्ठते। अस्य चार्तवसंसृष्टशुक्रप्रवर्तनेन च वीजधर्मणः सूक्ष्मदेहस्यापि नित्यानुबन्धस्य प्रवृत्तिरुक्ता भवति । उक्तं ह्यतुल्यगोत्रीये-भूतानि चखारि तु कर्मजानि यान्यात्मलीनानि विशन्ति गर्भ । स वीजधर्मा ह्यपरापराणि देहान्तराण्यात्मनि याति याति ॥ इति । ननु तदप्रदुष्टार्तवसंसृष्टशुक्रे चेतनाधातुः को यो गुणग्रहणाय पूर्व प्रवर्त्तते इत्यत आह–स हीत्यादि। स चेतनाधातुहि यस्मात् हेतुः सव्वकर्मसु हेतुहि पूर्ववर्ती। ननु स निष्क्रियः कथं हेतुः स्यादित्यत आह-कारणमिति । कारयतीति कारणं प्रयोजकः, स्वयं किश्चिदपि न करोति सत्त्वादीस्तु कुर्वतः प्रेरयति। अत एव निमित्तम् । नन्वस्य हेतुः क इत्यत आह-अक्षरं न क्षरतीत्यक्षरम्। अनादस्तस्य हेतु स्तीति भावः। अत एव कर्ता। ननु सत्त्वादिः क्रियाकारकः कथं न कर्ता इत्यत आह—मन्तेति। मतिमान् मननशील इत्यर्थः । ननु मननन्तु सत्त्वं करोति कथं मन्ता स्यादित्यत आहबोधयितेति, सत्त्वादिकांश्चेतयिता। ननु स्वयं किं न बुध्यते इत्यत आह-बोद्धेति। ननु तर्हि किं क्रियाः कारयति फलं न भुङ्क्ते इत्यत आह-द्रप्टेति। क्रियाद्रष्टा न तु क्रियाकर्ता क्रियाफलभोक्ता वा, अत एव धाता ब्रह्म त्यादिपर्यायवाच्यः । प्रकुल इति प्रगतः कुलं वंशं प्राप्तः स प्रकुलः । प्रभुः शक्तिमान्। भूतात्मा भूतानां प्राणिनामात्मा स्वप्नावस्थस्तैजसाख्य आत्मा, इन्द्रियात्मा इन्द्रियाणां श्रोत्रादीनामात्मा स्वस्त्रक्रियाहेतुः। अन्तरात्मा सुषुप्तिस्थानः प्राशः । एनं विना हि न गर्भनिर्माणं सम्भवतीति पूर्वमयं प्रवत्तते । हि-"चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते।" गुणग्रहणायेत्यत्र 'गुण'शब्देन, गुण. गुणिनोरभेदोपचारात् गुणवन्ति भूतान्युच्यन्ते। किंवा गुणोऽप्रधानम्, प्रधानञ्चात्मा, तदव्यतिरिक्तानि च भूतानि गुणाः। कस्मादात्मा भूतानि गृह्णात्यप्रधानरूपाणीत्याशङ्कायामात्मनः प्राधान्यख्यापकान् पर्यायानाह-स हीत्यादि। न भरतीत्यक्षरम् । गुणी मूतरूपगुणवानित्यर्थः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy