SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९५३ ४थ अध्यायः . शारीरस्थानम् । सम्भवति । स तथा हर्षभूतैनात्मनोदीरितश्चाधिष्ठितवीजधातुः पुरुषशरीरादभिनिष्पद्योदितैन पथा गर्भाशयमनुप्रविश्यातवेन संसर्गमेति। ___ तत्र पूर्व चेतनाधातुः सत्वकरणो गुणग्रहणाय पुनः धावात्मा शारीरधातुरूप आत्मा पूर्वजन्मन्यात्मकृतदिष्टानुपविष्टशुक्रभूतः शुक्राख्योऽङ्गादङ्गान्तरे तदङ्गादङ्गान्तरे क्षरितः सम्भवति । सुश्रुतेऽप्युक्तं-सौम्यं शुक्रमात्तेवमाग्नेयमितरेषामप्यत्र भूतानांसान्निध्यमस्त्यणुना विशेषेण परस्परोपकारात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च। तत्र स्त्रीसयोः संयोगे तेजः शरीराद् वायुरुदीरयति । ततस्तेजोऽनिलसन्निपाततः शुक्र च्युतं योनिमभिपतिपद्यते संसृज्यते चार्त्तवेनेति। स तथेति तथर्नु मत्या स्त्रिया सह संसर्ग गतस्य पुसो मैथुनजहर्षभूतेनात्मना उदीरितः प्रच्युतश्चाधिष्ठितवीजधातुः पितृयानेन सोमलोकगतो दिष्टरूपं वीजं ततः प्रत्यागतं पुनः। अधिष्ठितं यं धातु सोऽधिष्ठितवीजचासौ धातुश्चेत्यधिष्ठितवीजयातुः। कर्तरि क्तः। स परः शरीरधाखात्मा शुक्रभूतः पुरुषशरीरादभिनिष्पत्योदितेनोक्तेन पथा योनिरन्धण गर्भाशयमनुपविश्याऽप्रदुष्टेन नवेनातवेन संसर्गमेति। सुश्रुतेऽप्युक्तं-ततो ग्रीषोमसमयोगात् संमृज्यमानो गर्भो गर्भाशयमनु प्रतिपद्यते । इति । __ तथा प्रकारेणातवेन संसृष्टे शुक्रे सति कथं गर्भः स्यादित्यत आह-- तत्रेत्यादि । तत्र तथाविधरूपेणात्तवसंसृष्टशुक्रे चेतनाधातुरात्मा सत्त्वकरणो मनःकरणः सूक्ष्मशरीरेणाभिसंबद्धेन मनसा करणेन वेगवान् गुणग्रहणाय निरस्यति । ऋतुमतीमित्यत्र प्रशंसायां मतुः। तया सहेति तया स्त्रिया। तथाभूतयेति तारगृतुयुक्तया। हर्षः प्रीतिविशेषः । तेनोदीरितः प्रेरितः । पर इति सारः, किंवा परकालोत्पन्नः परः। शुक्रं हि सर्वधातुभ्यः परमुत्पद्यते। शरीरधात्वामा इति शरीरधातुरूपः। शुकमूत इति शुक्रस्वरूप एवाङ्गादङ्गात् सम्भवति व्यज्यते। तेन नाङ्गेभ्यः शुक्रमुत्पद्यते, किन्तु शुक्ररूपतयैव स्थितं व्यज्यते। वचनं हि--"सर्वत्रानुगतं देहे शुक्रम्" इति। हर्षमतेनेति हर्षरूपेणात्मना उदीरितश्चाधिष्ठितश्चेत्यनेन, उदीरणकाले तथा निःसरणकालेऽपि हर्षमयाधिष्ठानं शुक्रस्य गर्भाशयप्राप्तिकारणं दर्शयति-यदि शुक्रप्रवृत्तिकाले पुरुषो हर्षरहितः स्यात्, न तदा सम्यक शुक्रप्रवृत्तिः तथा वेगविघातान गर्भाशयप्रवृत्तिर्भवति। वीजरूपो धातुरूजधातुः शुक्र. मिति । संसर्ग सम्यङमूर्छनम् । ___ सत्त्वं मनः करणं यस्य स सत्त्वकरणः। आत्मा निष्क्रियत्वेन क्रियावता मनसा यत् कार्य करोति, तच्च कार्य मनसा क्रियमाणमप्यचेतनेन चेतनावत आत्मन एवोच्यते। वचनं For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy