________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५२
चरक-संहिता। ( महतीगर्भावक्रान्तिशारीरम् ___ यया चानुपूर्व्याभिनिवर्त्तते कुक्षौ तदनुव्याख्यास्यामः । गते पुराणे रजसि, नवे चावस्थिते, पुनः शुद्धस्नातां स्त्रियमव्यापन्नयोनिशोणितगर्भाशयामृतुमतीमाचक्ष्महे। तया सह तथाभूतया यदा पुमानव्यापन्नवीजो मिश्रीभावं गच्छति तस्य हर्षोदीरितः परः शरीरधात्वात्मा शुक्रभूतोऽङ्गादङ्गात् जीवस्य षष्ठो धातुरुक्तः, पञ्च चान्तरीक्षादयो धातवः। इत्येतत्पड़ धातुसम्भवस्तु गर्भः। इति यविकारश्च गर्भस्तदनुव्याख्यास्याम इति प्रतिज्ञाताओं ध्याख्यातो भवति ॥३॥
गङ्गाधरः-अथ यया चानुपूर्ध्या गर्भोऽभिनि+त्तते कुक्षौ तदनुव्याख्यास्याम इति प्रतिज्ञातार्थ स्मारयति-यया चानुपूर्व्यत्यादि। गते पुराणे रजसीत्यादि। पुराणे क्रमेण मासेन सञ्चितं रजः पुराणमुच्यते, तस्य प्रवृत्त्या गतेऽतीते त्रिरात्रान्ते चतुर्थ दिने नवे नूतने रजसि अवस्थिते पुनः शुद्धस्नाताम् ऋतुस्नाताम् अव्यापन्नयोनिमव्यापनशोणितामव्यापन्नगर्भाशयां । योनिव्यापदः शोणितदोषा गर्भाशयदोषाश्च वक्ष्यन्ते। तथाभूतया अव्यापन्नयोनिशोणितगभाशयया तया स्त्रिया सह अध्यापन्नवीजोऽप्रदुष्टशुक्रः पुमान् । शुक्रदोषाश्च वक्ष्यन्ते योनिव्यापदध्याये। मिश्रीभावं मैथुनम् । तस्यत्तमत्या स्त्रिया सह संसर्ग गच्छतः पुंसो मैथुनजहषौदीरितः प्रेरितः परः श्रेष्ठश्चरमः शरीरवक्ष्यमाणभूतग्रहणानुरोधात्। वक्ष्यति हि–“योऽन्तरिक्षं पूर्वतरमन्येभ्यो गुणेभ्य उपादत्ते" इत्यादि। चेतनाधिष्ठानभूत इति आत्मनो भोगायतनम्वरूप इत्यर्थः । 'चेतना'शब्देन आत्मोच्यते । किंवा 'भूत'शब्दः सादृश्ये, चेतनाधिष्टानमिव शरीरमित्यर्थः। न तु परमार्थतो निराश्रयस्यात्मनो भोगायतनत्वव्यतिरेकेण शरीरमाश्रयो भवति। अनया युक्तेवति अनया भूतविकाररूपया योजनया पञ्चमहाभूतसमुदायात्मको भवति, अनया युक्तमा कतिधापुरुषीयोक्तश्चतुर्विशतिको भवति, तथा मातृजादिरूपचिन्तया मात्रादिसमुदायात्मको भवतीत्यर्थः। न चैतेषां पक्षाणां विरोधोऽस्ति । यतः मातृजादिव्यपदेशेऽपि पञ्चमहाभूतविकारत्वमविरुद्धमेव, येन मातृजादयोऽप्यस्य महामूतविकारा एव। उक्तं हि-रसात्ममातापितृसम्भवानि । मूतानि विद्यात् दश घट च देहे" इति । चतुर्विंशतिकत्वेऽपि च पञ्चमहाभूतात्मकरूपतैव तत्र प्रपञ्चिता। स हीत्यादि-अस्येति गर्भस्य ॥३
चक्रपाणिः-गत इति निवृत्ते । पुराण इति ऋतुकालातिक्रमसञ्चिते। नवे चावस्थित इति बचनेन नवेऽप्यनस्थिते गर्भकारणत्वं नास्तीति दर्शयति। शुद्धस्नातामित्यनेन शुद्धस्नातैव स्त्री गम्या, नास्नाला, अशुद्धत्वादिति दर्शयति। 'स्त्यायत्यस्यां गर्भ इति 'स्त्री'। अनेन बन्ध्यां
For Private and Personal Use Only