SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४र्थ अध्यायः] शारीरस्थानम् । १६५१ भावेभ्यः समुदितेभ्यो गर्भः सम्भवति। तस्य ये येऽवयवा यतो यतः सम्भवतः सम्भवन्ति, तान् विभज्य मातृजादीन् अवयवान् पृथक पृथगुक्तमग्रं। शुक्रशोणितजीवसंयोगे कुक्षिगते गर्भसंज्ञा भवति। गर्भस्त्वन्तरीक्षवाय्वग्नितोयभूमिविकारश्चेतनाधिष्ठानभूतः। एवमनयैव युक्त्या पञ्चमहाभूतविकारसमुदायात्मको गर्भश्चेतनाधात्वधिष्ठानभूतः। स ह्यस्य षष्ठो धातुरुक्तः ॥३॥ इत्यादिना रसजान्, भक्तिः शीलं शौचमित्यादिना सत्त्वजान विभज्य विभागशो निद्दिश्य, अग्रे खड्डीकागर्भावक्रान्तौ। इति यतश्च गर्भः सम्भवतीति प्रतिक्षातार्थी व्याख्यातो भवति। अथ यस्मिंश्च गर्भसंज्ञा तदनुव्याख्यास्याम इति प्रतिज्ञातार्थ व्याख्यातुमाह--शुक्रेत्यादि। कुक्षिगते गर्भाशयगते। सुश्रतेऽप्युक्तं-शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसम्पूर्छितं गर्भ इत्युच्यत इति। इति यस्मिंश्च गर्भसंक्षेति प्रतिज्ञाताओं व्याख्यातो भवति। अयं गर्भस्तु यद्विकारस्तदनुव्याख्यास्याम इति यत् प्रतिज्ञातं तद व्याख्यायतेगर्भस्वित्यादि। अन्तरीक्षादिपश्चभूतविकारोऽयं गभस्तत्रान्तरीक्षमेकविधम् अकस्मिकलात् । सक्रियखात् तु वाय्बादीनि स्वस्वरूपाद्विरूपमूर्ती नि पोडशविधानि-तत्रात्मजानि चखारि, वाय्वादीनि अमिश्राणि पूर्वकृतकर्मफलानुबद्धानि । मातृजानि चखारि, पितृजानि चखारि, रसजानि चखारि, इति पाश्चभौतिकानि द्वादश मिश्राणि। चेतनाधिष्ठानभूत इति आत्मनो विकाराभावादात्माधिष्ठानभूत एव न खात्मविकार इत्यर्थः। उपसंहरनिममर्थमाहएवमनयेत्यादि। स हीत्यादि। हि यस्मात् स चेतनः क्षेत्र आत्माऽस्य प्रश्नक्रमविशुद्धपनुरोधात् पुनरिह कृतः। येन प्रथमं कारणम्, तदनु कार्यरूपो धर्मोऽभिधेय इति क्रमेण प्रश्नः शोभते । यत् तु "शुक्रशोणितसंसर्गमन्तर्गर्भाशयगतम्" इत्यादिना, 'गर्भोऽभिनिर्वर्त्तते' इत्यन्तेनोक्तम्, तत्र अयमसौ 'गर्भ'शब्दाभिधेयोऽर्थ इति नाभिहितमेव। तेन न गर्भसंज्ञाभिधेयार्थध्याकरणं पुनरुक्तमेव। कुक्षिगत इति कुक्ष्येकदेशगतगर्भाशयगते। संयोग इति सम्यगयोगे। तेन जीवस्यातिवाहिकशरीरेण योगः संगृह्यते, न त्वात्मनो व्यापकत्वेन यो योगो गर्भजनकः । एवंभूतसंयोगो यद्यपि कुक्षावेव भवात, तथापि सिद्धमेवार्थ शिष्यं प्रतिपादयितु 'कुक्षिगते' इति पदं कृतम्। गर्भस्त्वित्यादि। गर्भारम्भकाच्यपि मायादीनि परित्यज्यान्तरिक्षमादौ कृतं For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy