________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः। अथातो महतीगर्भावक्रान्तिशारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥१॥ यतश्च गभः सम्भवति यस्मिंश्च गर्भसंज्ञा यद्विकारश्च गर्भो यया चानुपूर्व्याभिनिवर्त्तते कुक्षौ यश्चास्य वृद्धिहेतुर्यतश्च अस्याजन्म भवति यतश्च जायमानः कुक्षौ विनाशं प्राप्नोति यतश्च कान्येनाविनश्यन् विकृतिमापद्यते तदनुव्याख्यास्यामः ॥२॥
मातृतः पितृत आत्मतः सात्म्यतो रसतः सत्त्वत इत्येतेभ्यो गङ्गाधरः-अथ गभस्य कारणानां विनिश्चयानन्तरं गर्भसंज्ञादिशानार्थ महतौं गर्भावक्रान्तिं शारीरमारभते-अथात इत्यादि। अर्थात् परलोकादेत्य गर्भवेनाव जीवलोके क्रम्यते आत्मनेति गर्भावक्रान्तिः। तामधिकृत्य कृतं शारीरमिति तद्धितलुकि युक्तवदव्यक्तिवचने। अस्य महत्त्वं यतो गर्भसम्भवः यस्मिंश्च गर्भसंग यद विकारश्च गभौ यया चानुपूर्व्याभिनिवर्त्तते गर्भः कुक्षावित्येवमादुरपदेशवत्त्वात्। पूर्वाध्यायस्य यतो गर्भसम्भवस्तस्यैव प्रपञ्चमात्रेण खुडाकखमेतदपेक्ष्य। अन्यच्च सच पूर्ववद व्याख्येयम् ॥१॥
गङ्गाधरः-यतश्चेत्यादिकाः प्रतिज्ञाता व्याख्यातुमारभ्यन्ते। यतश्च गर्भः सम्भवतीति प्रतिक्षार्थ व्याचष्टे ॥२॥
गङ्गाधरः-मातृत इत्यादि । तस्य गर्भस्य यतो यतो मात्रादितः सम्भवतस्तान् मातृजादीनवयवान् खम् च लोहितञ्चेत्यादिना मातृजानवयवान्, केशश्मश्रुनखेत्यादिना पितृजान, तासु तासु योनिषत्पत्तिरित्यादिनात्मजान्, आरोग्यमनालस्यमित्यादिना सात्म्यनान्, शरीराभिनिदै त्तिरभिवृद्धिः
चक्रपाणिः-खुद्डीकागर्भावक्रान्तिप्रपञ्चत्वान्महत्या गर्भावक्रान्तेरनन्तरमभिधानम् । यत इति यतः कारणात् । यविकार इति यन्मय इत्यर्थः। ययानुपूटा येनानुक्रमेणेत्यर्थः। कास्र्नेपन अविनश्यन्निति मरणमगच्छन्निति ॥ १॥२॥
चक्रपाणिः—'मातृतः' इत्यादिना 'सम्भवति' इस्यन्तेन चोक्तञ्च मातृजादय एव प्रोक्ता इति वाक्यार्थः फलति । अयश्च वाक्यार्थो यद्यपि पूर्वाध्याय एवोक्तः “मातृजश्चायम्" इत्यादिना, तथापि
For Private and Personal Use Only