________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
शारीरस्थानम् ।
१६४६ ___ तत्र श्लोको। हेतुर्गर्भस्य निर्वृत्तौ वृद्धौ जन्मनि चैव यः। पुनर्वसुमतिर्या च भरद्वाजमतिश्च या॥ प्रतिज्ञा प्रतिषेधश्च विशदश्चात्मनिर्णयः ।
गर्भावक्रान्तिमुदिश्य खुड्डीका संप्रकाशितम् ॐ ॥ २८॥ इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते शारीरस्थाने खड्डीका
गर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः ॥३॥ ब्रह्मभागस्याधुना सर्गस्थितौ सद्भावो नास्तीति सर्वसम्मतम्। न होको वत्तेते भावो वर्त्तते नाप्यहेतुक इति। अत एवाह-सर्वमेतदित्यादि। जहिसंशयमिति जहिस्तम्भ इत्यादिवत् समासः॥२७॥ गङ्गाधरः-अथाध्यायसंग्रहार्थमाह-तत्रेत्यादि । हेतुरित्यादि स्पष्टम् ॥ २८ अध्यायं समापयति-अग्नीत्यादि। इति खुड्डीकेत्यादि। इति वैद्य श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ शारीर
स्थानजल्पाख्ये चतुर्थस्कन्धे खुड्डीकागर्भावक्रान्ति
शारीरजल्पाख्या तृतीयशाखा ॥३॥
ज्ञत्वाज्ञत्वं प्रसक्तोपपादितम्। सविकारत्वमात्मनः नित्यज्ञानबल * साधनेन परिहृतमिति न पृथक परिहृतम् । भरद्वाजशब्देनेह नात्रेयगुरुरुच्यते, किन्तु अन्य एव भरद्वाजगोत्रः कश्चित्। तेन संशयच्छेदनमात्रेयेणोपपन्नमेव ॥२७॥
चक्रपाणिः-संग्रहे हेतुशब्दो गर्भादिषु जन्मान्तेषु सम्बध्यते। प्रतिज्ञानिषेधो भरद्वाजकृतो ज्ञेयः। तत्साधनञ्च यदात्रेयस्य, तद् विशदश्वात्मनिर्णयः इत्यनेनोक्तम् । 'तद्' इति सामान्येन मात्रादि प्रत्यवमर्षयन्नपुंसकम् ॥ २८॥ इति चरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्य्यटीकायां
शारीरस्थाने खुड्डीकागर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः ॥ ३ ॥
* तत् प्रकाशितमिति चक्रः । * नित्यज्ञानवस्वसाधनेन इति पाठान्तरम् ।
For Private and Personal Use Only