________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४८
चरक-संहिता। (खुड्डीकागर्भावक्रान्तिशारीरम् नात्मा ज्ञानाहते चैको ज्ञातु किञ्चित् प्रवर्तते । न हेरेको वर्तते भावो वर्तते नाप्यहेतुकः ॥ तस्माजज्ञः प्रकृतिश्चात्मा द्रष्टा कारणमेव च ।
सर्वमेतद् भरद्वाज निर्णीतं जहिसंशयम् ॥ २७॥ वस्थां गतः विषयान् सुखदुःखे च वेत्ति। एतच्चोदाहरणप्रदर्शनमात्रं तेन अपिशब्दात् सुषुप्तिमापन्नोऽपि सुखमात्रं वेत्ति। समाध्यवस्थायामात्मानञ्च वेत्तीत्यतोऽपि हेतोर्वात्माऽशो न स्मृतः। ननु समाध्यवस्थायामपि किमात्मा नाशो भवति इत्यत आह-नात्मा ज्ञानादित्यादि। ज्ञानाहते एकः केवल आत्मा ब्रह्मरूपः किश्चिज्ज्ञातु न प्रवर्तते ज्ञानाभावात् किमपि ज्ञातु कत वा प्रभवति। ननु कस्मान्न ज्ञातु प्रवत्तेते न वा कत्ते मित्यत आह-न हेक इत्यादि। एको भावो हि यस्मान्न सर्वावस्थायां वर्तते अहेतुकश्च भावो नापि वर्तते। भवतीति भावः उत्पत्तिशीलः, उत्पत्तिश्च सतो ह्यवस्थान्तरगमनं तस्मात् तेजोऽबन्नादिः सव्वौं भावः सहेतुकस्तथा च वैकारिकाद्यहङ्कारयोगेण केवलस्यात्मनो विश्वरूपाद्यवस्थागमनं जन्मोच्यते स्वयमेव तथाभूतखात् । तथाभूतश्चात्मा भाव एव द्रव्यमध्ये पठितः, न होको वत्ततेऽनादिरपि नाप्यहतुकः तस्माजशः प्रकृतिश्च महदादीनां, न तु विकारः जवाकुसुमादिप्रतिविम्बविम्बितविमलस्फटिकोपलवत् मूर्यकरनिशाकरकरतिमिरापरक्तगगनवद्वा वैकारिकायहकारादिविम्बितो ह्यात्मा द्रष्टा न तु भोक्ता सर्वजगतां कारणमेव, केवलस्वात्मा मुक्तः स्वयम्भुवि भगवति हिरण्यगर्भे लीनो भवति, सोऽपि परमव्योमरूपाव्याकृतदेही वृहत्पुरुषः परः पुरुषस्तदतिरिक्तकेवलअपरमपि लौकिकं निरिन्द्रियस्य ज्ञानसद्भावोदाहरणमाह- गृह्णीष्वेत्यादि। स्वप्नगतान् स्वप्नदर्शनावस्थायां प्राप्तान् । आत्मज्ञानविषयज्ञानयोर्विशेषमाह-आत्मेत्यादि। आत्मज्ञानात् नित्यात् विना। किञ्चिज्ज्ञानं विषयजम् । एकमसहायम् । न वर्त्तते इन्द्रियादिकारणरूपसहायं विना नोत्पद्यते। आत्मज्ञानञ्च नित्यमेव साङ्खयऽप्युक्तम् ;-"चिच्छक्तिपरिणामिनी" इत्यादिना "आत्मनः" इत्यन्तेन। अनोपपत्तिमाह-न हेयको वर्त्तते भाव इति । भाव उत्पत्तिधर्मा एकः सन् कारणरहितः सन् न वर्त्तते। तेनोपपद्यते। तथा भावः कारणजन्यत्वे सत्यपि अहेतुक इति भकत को न वर्त्तते, किन्तु कुम्भकाराधिष्ठितान्येव मृञ्चक्रादीनि प्रवर्तन्ते। तस्मादविषयज्ञानान्यपि इन्द्रियमनोऽथैस्तथा चात्मना जन्यन्त इति भावः। उपसंहरति-तस्मादित्यादि। अत्र चात्मनो
* आरमशानाइते चैकं ज्ञानं किञ्चिन्न वर्तते इति चक्रवतः पाठः ।
For Private and Personal Use Only