________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
शारीरस्थानम् ।
१९४७ जानन्नपि मृदोऽभावात् कुम्भकृन्न प्रवर्त्तते। शृणुया छ वेदमध्यात्ममात्मज्ञानबलं महत् ॥ इन्द्रियाणि च सडिनप्य मनः संगृह्य चञ्चलम् । प्रविश्याध्यात्ममात्मज्ञः खे ज्ञाने पर्यवस्थितः ॥ सर्वत्र विहितज्ञानः सर्वभावान् परीक्षते। गृह्णीष्व वेदमपरं भरद्वाज विनिर्णयम् ॥ निवृत्तेन्द्रियवाकचेष्टः सुप्तः स्वप्नगतो यदा।
विषयान् सुखदुःखे च वेत्ति नाज्ञोऽप्यतः स्मृतः॥ ननु कस्मादिन्द्रियसद्भावेन कत्तुः कार्यज्ञानप्रटत्तौ न क्रियाभिनिष्कृ तिः इत्यत आह-जाननपीत्यादि । कुम्भकृत् सेन्द्रियो जानन्नपि कुम्भं कत्तं मृदोभावात् मृत्तिकाया अभावात् न च कुम्भं कत्तु प्रवर्तते प्रभवति। इत्थश्चात्मा यद यदिन्द्रियवान् भवति तत्तदिन्द्रियकार्यज्ञानवान् भवतीति। तथाचाध्यात्मम् आत्मानमधिकृत्य वेदं शृणुयाः वेदमाहात्मशानबलं महदिति। आत्मनो शानमेव बलं महद्धलम्। नन्वात्मशानबलं कुतो भवतीत्यत आहइन्द्रियाणीत्यादि। श्रोत्रादीनीन्द्रियाणि शब्दश्रवणादितः सङ्क्षिप्य निवर्त्य चश्चलं नानाविधविषयाभिलाषि मनः स्वार्थचिन्त्याचिन्त्यादितः संगृह्य निवर्त्य अध्यात्ममात्मनि अधिकृत्य स्वे ज्ञाने आत्मज्ञाने प्रविश्यात्मशः पर्यवस्थितः सव्वतोभावेनावस्थितः सन् सर्वत्र चराचरे विहितशानः कृतानः सन् सर्वशः सन् सर्वभावान् चराचरान् परीक्षते विजानीते। इत्युक्त्वात्रेयः स्वगुरुभरद्वाजसिद्धान्तनिदर्शनवेदं दर्शयति-गृह्णीष्वेत्यादि। निवृत्तेत्यादि । निवृत्ताः श्रोत्रादिपञ्चबुद्धीन्द्रियाणि वाक चेष्टा यस्य स सुप्तः स्वमासूचयति। भावैरित्यत्र 'यैः' इति शेषः । वर्त्तते उत्पद्यते । अत्रैव दृष्टान्तमाह-जानन्नपीत्यादि । घटं कत्तुं जानन्नपीत्यादि योज्यम् । मृदो मृत्तिकाया अभावात् । आत्मनो ज्ञत्वे साधनान्तरमाहभ्रूयतामित्यादि। आत्मानमधि अध्यात्मम्, तद्भवमध्यात्मम्। आत्मनो ज्ञानस्य बलमात्मज्ञानबलम् । सङ्क्षिप्येति विषयेभ्यो व्यावर्त्य, मनः सङ्क्षिप्येति मनोऽप्यात्मव्यतिरिक्तविषयान् निगृह्य । चञ्चलमिति स्वभावः। स्वे ज्ञान इति आत्मज्ञाने। सर्वभावान् परीक्षत इति विनापीन्द्रियः समाधिबलादेव यस्मात् सर्वज्ञो भवति, तस्माजनस्वभाव एव निरिन्द्रियोऽप्यारमा ।
* श्रूयतामिति चक्रः।
For Private and Personal Use Only