________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४६
चरक-संहिता। खुडीकागर्भावक्रान्तिशारीरम् न चात्मा सखिन्द्रियेषु ज्ञोऽसत्सु वा भवत्यज्ञः। न ह्यसत्त्वः कदाचिदात्मा। सत्त्वविशेषाञ्चोपलभ्यते ज्ञानविशेष इति ॥ २६
भवन्ति चात्र। न कर्तुरिन्द्रियाभावात् कार्य्यज्ञानं प्रवर्तते। यैः क्रिया वर्तते या तु सा विना तैनं वर्तते ॥
त्रा
गङ्गाधरः-अथात्मा सस्विन्द्रियेष्वित्यादिना यदुक्तं तदपि न वाच्यम् कुत इत्यत आह-न चेत्यादि। न चाशो भवत्यात्मेत्यन्वयः। कुतोऽसत्स्विन्द्रियेष्वात्मा नाशो भवतीत्यत आह-न ह्यसत्त्व इत्यादि। कदाचिदपि काले आत्मा हि यस्मान्नासत्त्वो मनोऽनुवन्धरहितो न भवति । तहिं कि सर्वदा सत्त्वरूपः सत्त्ववानित्यत आह–सत्त्वविशेषाच्चेति। यदा यदा यादृशसत्त्ववान् आत्मा भवति तदा तदा तस्मादेव सत्त्वविशेषाज ज्ञानविशेष उपलभ्यते तस्यात्मन इति। वृक्षाद्यचेतनेऽपि ह्यात्मान्तश्चेतनोऽभ्यन्तरश इति सूचितम् ॥२६॥
गङ्गाधरः-तथाविधार्थ दर्शयति वेदप्रमाणेन-भवन्ति चात्रेत्यादि। न कर्तु रित्यादि। इन्द्रियाभावात् कत्तुंः कार्यशानं न प्रवर्त्तते इति । तर्हि किम् इन्द्रियसद्भावेन कार्यशानप्रवर्त्तने कः कार्यक्रियाभिनि त्तिः स्यादित्यत आह-यरित्यादि। यहेतुभिर्या क्रिया वर्त्तते तेहेतुभिर्विना सा न वर्तते इति ।
चक्रपाणिः-या चाज्ञरवप्रसक्तिरात्मन्युक्ता, तत्राह-न चेत्यादि। इन्द्रियभावे तथेन्द्रियाभावेऽपि नित्यं ज्ञानवानेवात्मा इति प्रतिज्ञार्थः । न ह्यसत्वः कदाचिदित्यत्र 'हि'शब्दो हेतौ । तेन यस्मात् सर्वदा समनस्क एवात्मा। तेन बाहेन्द्रियाभावेऽप्यन्तःकरणमनोयोगात् नित्यमात्मा मनःकरणको ज्ञानवानेवायमित्यर्थः। यत्वेतद् वाह्यविषयगतं ज्ञानम्, तत् सत्त्वस्येन्द्रियाधिष्ठानविशेषाद् भवति । तेन इन्द्रियाभावे इन्द्रियजन्यं विशिष्टं ज्ञानं न भवति। यत् तु केवल. मनोजन्यमात्मज्ञानम् , तद् भवत्येव सर्वदा। तस्माद् यन्नित्यभावि मनःसन्निधिमात्रजन्यमात्मज्ञानम्, तत् सदैवास्ति ॥ २६ ॥ ___ चक्रपाणिः-न चास्य ज्ञानजननशक्तिः पराहता भवतीत्याशयेनाह-न कर्तुं रिस्यादि । कार्य: ज्ञानमिति कार्यप्रवृत्तिजनकवाह्यविषयज्ञानम् । तेन निर्विषयं ज्ञानमारमम इन्द्रियामावे भवतीति
* या क्रिया वर्सते भावरिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only