SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः शारीरस्थानम्। १६४५ यच्चोक्तं यदि च मनुष्यो मनुष्यप्रभवः कस्मान्न जड़ादिभ्यो जाताः पितृसदशरूपा भवन्तीति। तत्रोच्यते यस्य यस्य ह्यगावयवस्य वीजे वीजभाग उपतप्तो भवति, तस्य तस्याङ्गावयवस्य विकृतिरुपजायते, नोपजायते चानुपतापात् तस्मादुभयोरुत्पत्तिरपि। अत्र सर्वस्य चात्मजानीन्द्रियाणि तेषां भावाभावहेतुदैवम्, तस्मान्नैकान्ततो जड़ादिभ्यो जाताः पितृसदृशरूपा भवन्ति ॥ २५ ॥ ___ गङ्गाधरः-द्वितीयदोषमुद्धरति-यच्चोक्तं यदि चेत्यादि। तस्य सिद्धान्तमाह-तत्रोच्यत इत्यादि। हि यस्मात् । यस्य यस्याङ्गावयवस्ये त्यादि। तस्मात् तत्तदवयववीजे वीजाभागानुपतापानुपतापाभ्यामङ्गविकृत्यविकृतिजननात् तदुभयोपपत्तिविकृताविकृतयोरुभयोरुपपत्तिरपि भवति। अत्र विकृताविकृतोभयोपपत्तौ च सर्वस्य पुरुषस्यात्मजानीन्द्रियाणि । तेषामिन्द्रियाणां भावाभावहेतुविकृताविकृतसद्भावाभावानां हेतुर्दवं पूवजन्मकृतं कर्म तस्मादिन्द्रियाभावभावयोर्दैवस्य हेतुखात् एकान्ततो जड़ादिभ्योः जाताः पितृसदृशरूपा न भवन्ति । तस्मात् यदि च मनुष्यो मनुष्यप्रभवः करमान जड़ादिभ्योः जाताः पितृसदृशरूपा भवन्तीति न वाच्यम् ॥२५॥ चक्रपाणि:-वीज इति शुकशोणिते। वीजस्याङ्गप्रत्यङ्गनिर्वतको भागो वीजभागः । उभयोपपत्तिरप्यत्रेति पितृसदृशा भवन्ति न भवान्त चेत्यर्थः । आत्मजानीति आत्मप्रतिबद्धकर्मजानि। भावाभावहेतुर्दैवमिति इन्द्रियभावे इन्द्रियजनकं शुभम्, इन्द्रियाभावे चाशुभं देवं हेतुरित्यर्थः । उपसंहरति-तस्मादित्यादि। एवं मन्यते-मनुष्यवीजं हि प्रत्यङ्गवीजभागसमुदायात्मकं स्वसदृशप्रत्यङ्गसमुदायरूपपुरुपजनकम्। आत्मजानि इन्द्रियाणि च भोगसाधनानि आत्मप्रतिबद्धकाधीनानि। तेन पिता यदि कुष्ठ्यपि भवति, वीज न दुष्टं भवति कुष्ठाधानत्वगादिजनकम्, ततो निष्कुष्टान्येव त्वगादीन्यनुपतप्तत्वगादिवीजात् सदृशानि जायन्ते, यदा त्वतिवृद्धकुष्ठतया पित्रो. वीजमपि कुष्ठजनकदोपदुष्टं भवति, तदा दुष्टत्वगादिवीजभागात् कुष्ठदुष्टैव त्वग् जायते । यदुक्तम्,"स्त्रीपुसयोः कुष्ठदोषाद् दुष्टशीणितशुक्रयोः । यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम्" इति । एवं कुष्ठिनो यदि हेतुबलाद वीजे कुष्ठजनको दोषो भवति, तदा कुष्टिनोऽपि कुष्ठवदपत्यं भवति । अन्धत्वादाविन्द्रियोपघातरूपे दुर्दैवमेव कारणम् । तच्चान्धापत्ये प्यवश्यमस्ति। तेन यदान्धेऽपत्येऽप्येवं पितृषूपघातकमशुभं भवति, तदा काकतालीयन्यायादन्धजातोऽप्यन्धो दृश्यते। एवं कुजादौ जड़ादी च व्याख्येयम् ॥ २५ ॥ २४४ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy