________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४४
चरक-संहिता। रुड्डोकागर्भावक्रान्तिशरीरम् जानामण्डजानां प्राणिनामेते गर्भकरा भावा यां यां योनिमापद्यन्ते तस्यां तस्यां योनौ तथातथारूपा भवन्ति । तद् यथा—कनकरजतताम्रत्रपुसीसान्यासिच्यमानानि वै तेषु तेषु मधूच्छिष्टविम्बेषु । तानि यदा मनुष्यविम्बमापद्यन्ते तदा मनुष्यविग्रहेण जायन्ते। तस्मात् समुदायप्रभवः सन् स गर्भो मनुष्यविग्रहेण जायते मनुष्यो मनुष्यप्रभव इत्युच्यते तदयोनित्वात् ॥ २४॥ तत्र चतसृषु योनिषु चतुषु वा जराय्वादियोनिजेषु मध्ये जरायुजाना प्राणिनामण्डजानाञ्च प्राणिनां न तु स्वेदजानामुद्भिज्जानाञ्च गर्भकरा गर्भकारकाः शुक्रशोणितादयो भावा यां यां मनुष्यगोगजाश्वखरादिकां योनिम् आपद्यन्त, तस्यां तस्यां मनुष्यगोगजाश्वखरादिकायां योनौ तथातथारूपा मनुष्यगोगजाश्वखरादिरूपा भवन्ति। ननु केन प्रकारेण तथातथारूपा भवन्तीत्यत आह-तद् यथेत्यादि। त्रपुरत्र वङ्गम् । तेषु तेषु मनुष्यगोगजाश्वखरादिरूपषु मधूच्छिष्टविम्बंषु मधुमलनिम्मितविग्रहाकरेषु आसिच्यमानानि द्रतकनकादीनीव तथातथारूपा भवन्ति। एतच्च भाष्यरूपेण विवृणोतितेष्वित्यादि। तेषु मनुष्यगोगजाश्वखरादिविम्बेषु मध्ये मनुष्यविम्ब मधुमलनिम्मितमनुष्यविग्रहाकरं कनकादीन्यापद्यन्ते तदा मनुष्यविग्रहेण जायन्ते आसिच्यमानानि इतकनकादीनीति शेषः। तस्मात् मनुष्यविम्बरूपयोनिम् आपन्नखात् । तदयोनिखात् मनुष्यविग्रहाकरविम्बलात् ॥ २४ ॥ दर्शयित्वा योग्यानुकारो भवति, तदाह-तत्रेत्यादि। गर्भेत्यादि। गर्भकरा भावाः शुक्रादयः। मधूच्छिष्टविग्रहेष्विति सिक्थकेन मृत्तिकायां निर्मितसकरूपविग्रहेषु। मनुष्यधिम्बमिति मनुष्याकारं सिक्थककृतसञ्चकम् । कनकादिबहुद्रव्योदाहरणम्, यथा कनका. दीनां बहूनामपि मनुष्यसञ्चकसिकथकस्थानां मनुष्याकृतिजनकत्वम्, तथा शुक्रादीनामपि बहूनां मनुष्ययोनिपतितानां मनुष्यविग्रहकर्तृत्वमिति साधोदाहरणाथम् । समुदायात्मकः सन्निति यद्यपि समुदायजन्यः, तथापि योनिरूपकारणमहिम्ना स्वयोनिसहश एव भवति, नान्ययोनिसरशः। न च कारणधर्मः पर्यनुयोगमर्हति। तेन शुक्रादिसमुदायोऽपि कारणं भवति, मातापितरौ विशेषेण गर्भस्य सजातीयत्वे कारणं भवत इति न कदाचित् क्षतिः। तद्योनित्वादिति विशेषेण मनुष्यस्य कारणत्वात् ॥ २४ ॥
" मधूच्छिष्टविग्रहेषु इति चक्रघृतः पाठः ।
For Private and Personal Use Only