________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] शारीरस्थानम् ।
१९४३ विरहादज्ञः स्यात् अज्ञत्वादकारणमकारणत्वाच्चानात्मेति वागवस्तुमात्रमेतद्वचनमनर्थकं स्यादितिहोवाच भरद्वाजः॥ २२ ॥ ___आत्रेय उवाच। पुरस्तादेतत् प्रतिज्ञातं सत्त्वं जीवस्पृक्शरीरेण अभिसंबनातीति। यस्मात् तु समुदायप्रभवः सन् स गर्भो मनुष्यविग्रहेण जायते मनुष्यो मनुष्यप्रभव इत्युच्यते तद् वक्ष्यामः ॥ २३॥ ___भूतानां चतुर्विधा योनिर्भवति जराय्वण्डस्वेदोद्भिदः। तासां खलु चतस्मृणामपि योनीनामेकैका योनिरपरिसंख्येयभेदा भवति भूतानामाकृतिविशेषापरिसंख्येयत्वात्। तत्र जरायुनिरिन्द्रियलेनाशखानाखाच्च अकारणबमकारणखाच्चानात्मायं गर्भः स्यादिति, तस्मात् मात्रादिसमुदायागौं भवतीति प्रतिज्ञाहानिदोषः स्यात् । नन्वस्तु गर्भ: सोऽनात्मा निरिन्द्रियस्तु यः स्यादिति तु वाग्वस्तुमात्रमेतद्वचनमनर्थकं स्यात् सेन्द्रियो निरिन्द्रियः सर्वः प्राणी सात्मा वस्तुत इतिहोवाच स कुमारशिरा भरद्वाजः॥२२॥
गङ्गाधरः-अत्रापि विप्रतिपत्तावात्रेय उवाच। किमुवाचेत्यत आहपुरस्तादित्यादि ॥२३॥
गङ्गाधरः-तद्वक्ष्याम इति यत् तदाह-भूतानामित्यादि। भूतानो माणिनाम्। योनीनामपरिसङ्घय यभेदेषु हेतुमाह-भूतानामाकृतीत्यादि । भज्ञत्वादकारणमिति, अज्ञत्वादकारणं शरीरप्रेरणादौ न कारणं स्यादित्यर्थः। अकारणत्वाच्च * नात्मेति शरीरप्रेरणादौ बुद्धिनिष्पादेव कारणत्वाद या चेतनाचेतनपञ्चमूतातिरिक्ता चैतन्यधार्यात्म. शब्दवाच्या इत्यर्थः। वागवस्तुमानमित्यर्थरहितशब्दमात्रमेतत् यदुच्यते-आत्मा स्वेन चक्षुषा रूपं पश्यतीत्यादि ॥ २२॥
चक्रपाणिः-आत्रेयः समादधाति-पुरस्तादित्यादि । एतच्च 'कथमयं सन्धीयते' इत्यस्योत्तरम् । सत्त्वं शुक्रा-वसन्धानकारणमित्यर्थः ॥ २३ ॥
चक्रपाणिः-मूतानामिति प्राणिनाम् । योनिर्जातिः। यद्यपि योनिशब्दः कारणवचनः, तथापि जराग्वादिरूपयोनिजाता अपि जराय्वादय एवोच्यन्ते कार्यो कारणोपचारात् । आकृतिः संस्थानम्, तस्या विशेषाः परस्परविसदृशाकृतय एव नरकरितुग्गादिरूपाः। सम्भावियोनिभेदं
* अज्ञस्वात् कालपूर्बशरीरप्ररणाविति पाठान्तरम् ।
For Private and Personal Use Only