SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४२ चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् . अथात्रापि बुद्धिरेवं स्यात् स्वेनैवायमात्मा चक्षुषा रुपाणि वेत्ति, श्रोत्रेण शब्दान्, घ्राणेन गन्धान, रसनेन रसान्, स्पर्शनेन स्पर्शान्, बुद्धया बोद्धव्यमित्यनेन हेतुना जड़ादिभ्योजाताः पितृ. सहशा भवन्ति। अत्रापि प्रतिज्ञाहानिदोषः स्यात् । एवमुक्त ह्यात्मा सत्तिन्द्रियेषु ज्ञः स्यात् असत्वज्ञः, यत्र चैतदुभयं सम्भवति ज्ञत्वमज्ञत्वञ्चस विकारप्रकृतिकश्चात्मा ® निर्विकारश्च। यदि च दर्शनादिभिरात्मा विषयान् वेत्ति, निरिन्द्रियो दर्शनादि___ अपराश्चाह–अथात्रापीत्यादि। आत्मा स्वेनैवात्मन एव चक्षुरादिना रूपादीन् वेत्तीत्येवमेव रूपेण आत्मा जड़ेनैव स्वेन गभखेन जातो जड़ो भवतीतीष्टापत्तौ च मात्रादिसमुदायप्रभव इति प्रतिक्षायाश्च हानिर्भवति । ननु कस्मात् पूर्वप्रकारेष्टयापत्तौ प्रतिज्ञा हीयते इत्यत आह-एवमुक्त ह्यात्मेत्यादि। जड़ादिभ्यः पितृभ्यो जाता जड़ादयो भवन्तीत्येवमुक्ते सति । हि यस्मात् सत्सु वत्तेमानेष्विन्द्रियेष्वात्मा तु शः स्यात् असत् स्विन्द्रियेष्वशः स्यात्, तच्चापीष्टं चेत् तर्हि यत्रतत् शखमशखञ्चेत्युभयं सम्भवति, स चात्मा विकारप्रकृतिश्च निर्विकारश्च भवतु। तत्रापि यदि चेत्यादि। तर्हि कारणसदृशत्वेन जड़रूपाः स्युरिति भावः। अत्र जड़ादिबहूदाहरणकरणं पक्षस्य बहूदाहरणसिद्धत्वेन दृढ़त्वप्रतिपादनार्थम् । कृतं पूर्वपक्षसमाधानमाशङ्कते-अथात्रेत्यादि। स्वेनैवेति आत्मकम्र्मोपार्जितेनैव । तेन इन्द्रियाणि यस्मादात्मजान्युक्तानि, न तु मातापितृरूपमनुष्यजन्यानि, सतश्च पित्रोरिन्द्रियं प्रत्यकारणत्वे न तदिन्द्रियसदृशानीन्द्रियाण्यपेक्ष्यैव भवन्तीति भावः । स्वेनैवेत्यादि. श्रोत्रादिभिरपि सम्बध्यते। जड़ादिभ्योजाता इत्यत्र भादिशब्दः प्रकारवाची। तेन कुब्जकुष्ठ्यादीनां ग्रहणम् । कुब्जत्वकुष्ठत्वाद्याधारभूतं हि शरीरं नात्मजम्, किन्तु मातापितृजमेव। ततश्च कुब्जादिजातस्य कुञ्जादिप्रसङ्गेनैवापकृतत्वं तदवस्थमेव। आशङ्कितं समा. धानं दूषयति-अत्रापीत्यादि। प्रतिज्ञादोषः स्यादिति, 'आत्मा ज्ञः' इत्यादिना आत्मनो शत्वप्रतिज्ञायाः, तथा निर्विकारः परस्त्वात्मा' इत्यादिना निर्विकारत्वप्रतिज्ञायाः कृताया दोषः स्यादिति भावः। असत्स्वज्ञ इत्यनेन कदाचिदज्ञत्वात् प्रतिज्ञातज्ञत्वम् व्याहतम्, इन्द्रियाधीन. त्वेन ज्ञत्वमात्मनः पराधीनं सन्न वास्तवं स्यादिति भावः। यत्रेत्यादिना सविकारत्वं साधयति । ज्ञत्वपरित्यागेनाज्ञत्वे प्रकृतेरयथाभूतत्वेन विकारो भवतीति भावः। सविकार इति विकारवान्' इत्यर्थो मतुबलोपाज ज्ञेयः। आत्मन इन्द्रियाधीनत्वेन ज्ञत्वे दूषणान्तरमाह-यदि चेत्यादि । . .. * स विकारप्रकृतिकश्चात्मा इत्यत्र स विकारश्वात्मा इति चक्रधृतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy