________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः शारीरस्थानम् ।
१९४१ भावानां समुदायादभिनिवर्तते गर्भः, कथमयं सन्धीयते ? यदि चापि सन्धीयते, कस्मात् समुदायप्रभवः सन् गर्भो मनुष्यविन. हेण जायते ? मनुष्यश्च मनुष्यप्रभव उच्यते। तत्र चेदिष्टमेतद यस्मान्मनुष्यो मनुष्यप्रभवः, तस्मादेव मनुष्यक्ग्रिहेण जायते। यथा गौगोप्रभवः यथा चाश्वोऽश्वप्रभव इत्येवं यदुक्तमय समुदायात्मक इति तदयुक्तम् । यदि च मनुष्यो मनुष्यप्रभवः कस्माज्जड़ान्धकुब्जकुब मूकमिन्मिनवामनव्यङ्गोन्मत्तकुष्ठ. किलासिभ्यो जाताः पितृसहशरूपा न भवन्ति ? अयं गर्भ इत्यन्वयः। कथमयमित्यत्रापि गर्भ इत्यनुवर्तते। कथं केन प्रकारेणायं गर्भो हेतुसमुदायान्मिलतीत्यर्थः । तत्र सव्वदा सव्वषामपत्यदर्शनाभावेन यदापत्योत्पत्तिहेतुकर्म परिणमति तदा मात्रादिहेतुसमवायः स्यात् । ततश्च यद्यपि सन्धीयते तहिं कस्मात् समुदायप्रभवो मात्रादिषटकमभवः सन् गर्भो मनुष्यविग्रहेण मनुष्याकारेण जायते। तत्र यदि मनुष्यो मनुष्यप्रभव इत्यतो मनुष्यविग्रहेण जायते इति तहि कस्माच्च मनुष्यो मनुष्यप्रभव उच्यते। तत्र च मनुष्यो मनुष्यप्रभव इति वचने चेद् यदातदिष्टं भवद्भिस्तत् किमित्यत आह—यस्मादित्यादि। मनुष्यप्रभव इति पितृरूपान्मनुष्यात् प्रभवो न तु मातृमनुष्यात् । अत्र दृष्टान्तो यथा गौरित्यादि। एवमुक्तप्रकारे सति तदयुक्तं मात्रादिषट्कसमुदायज इति वचनं यदुक्तं तदयुक्तम्। ननु कस्मात् तदयुक्तमित्यत आह-यदि चेत्यादि । तहि कस्मादित्यादि । कुब्रूः कुभाषी। मूको वागरहितः। मिन्मिनः सानुनासिकवचनः। वामनो इस्वः। मनुष्यप्रभवखान्मनुष्यविग्रहेण भवतु । मातापित्रनुरूपेण जड़ादिभ्यश्च जाताः कस्माजड़ादयः पितसदृशरूपा न भवन्तीति विप्रतिपत्तिरेका।
मिलतीत्यर्थः। मनुष्यविग्रहेण जायत इति मनुष्यजातौ कस्मान् मनुष्यविग्रहेणैव जायत इत्यर्थः । 'समुदायात्मकः' इति यदुक्तम्, तदयुक्तमित्यत्र मात्राद्यतिरिक्तजानिकथनेन तथा जातेरेव मनुष्यादिरूपाया बलवत्कारणत्वेन यथोक्तमात्रादिसमुदायप्रभवत्वं न युक्तमिति भावः। दूषणान्तरमाहयदि चेत्यादि। जड़ो जड़बुद्धिः। मिम्मिनः सानुनासिकः। पितृसदशरूपा इत्यत्र पितृशब्देन मातापितरौ प्रायौ। कारणसदशरूपत्वेन च चेन्मनुष्या भवन्ति, ते जड़ादिरूपकारणजाता अणि
For Private and Personal Use Only