________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४०
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम . ' एवमयं नानाविधानामेषां गर्भकराणां भावानां समुदायादभिनिवर्त्तते गर्भः। यथा कूटागारं नानाद्रव्यसमुदायात, यथा वा रथो नानारथाङ्गसमुदायात्। तस्मादेतदवोचाम-मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्चास्ति च सत्त्वमौपपादुकमितीतिहोवाच भगवानात्रेयः॥ २१ ॥ .. भरद्वाज उवाच। यद्ययं नानाविधानामेषां गर्भकराणामेव
गङ्गाधरः-अथोपसंहरणप्रतिशातार्थमाह-एवमित्यादि। एवमुक्तप्रकारेण अयं गर्भो नानाविधानां मातापित्रात्मसात्म्यरससत्त्वानां समुदायात् समस्तादभिनिव्वैत्तेते न व्यस्तात् । अत्र दृष्टान्तमाह-यथेत्यादि। कूटागारं जेन्ताकगृहम्। तस्मान्मात्रादिषदकतो गर्भाभिनिर्वर्तनादेतद वक्ष्यमाणं वयम् अवोचाम। किमित्यत आह-मातृजश्चायमित्यादि । स्पष्टम् ॥२१॥
गङ्गाधरः-अत्रापि भगवदात्रेयोक्ते प्रतिवचने सति पुनरपि भरद्वाजः कुमारशिराः। स पूर्वप्रतिपक्षो भरद्वाज उवाच, किमिति माह-यद्ययमित्यादि।
चक्रपाणिः-एवं मात्रादिकारणव्युत्पादनेन गर्भस्य समुदायप्रभवतां व्युत्पादितां दृष्टान्तेन नदयन्नाह-एवमयमित्यादि। कूटागारं वर्तुलाकारं गृहं जेन्ताकस्वेदप्रतिपादितम्, अन्ये तु वस्त्रादिकृतं सञ्चारगृहं कूटागारमाहुः। अत्र प्रकरणे यद्यपि मात्रादीनां सर्वेषां समुदितानामेव गर्ने प्रति कारणत्वम्, तथापि मातापित्रात्मसत्वानि विहाय सात्म्यरसयोरेव कारणास्वव्युत्पादने यत् 'समुदायोऽप्यत्र कारणम्' इत्युक्तम्, तत्रैवं मन्यते--अत्र यथा मात्रादयश्चत्वारोऽवश्यं गर्भप्रतिपादकभूताः, न तथा सात्म्यो रसो वा। येन शुक्रशोणितसरवात्मसंसर्गादेव गर्भो भवति, नावश्यं गर्भमेलके सात्म्यरसयोरपेक्षा, गर्भमेलकोत्तरकालं सात्म्यरसाभ्यां गर्भस्य पुष्टपादयो जन्यन्ते। तेन साम्ये रसे चावश्यं समुदायमपेक्ष्यं दर्शयति। यत्रैव 'समुदायोऽप्यत्र कारणम्, इत्युक्तम्, मानादयस्तु परस्परसमुदायमपेक्षमाणा अपि नावश्यं सात्म्यरससमुदायमादिगर्भमेलकेऽपेक्षन्त इति पुनस्तत्र समुदायापेक्षित्वं नोक्तम् । 'समुदायादेषां भावानाम्' इत्यनेन ग्रन्थेन, यत् परस्परसमुदायापेक्षित्वं मात्रादीनां चतुर्णाम्, तदुक्तमेव । यद्यपि गर्ने प्रत्यविशेषेण सात्म्यरसयोरपि कारणत्वम् 'सात्म्यजश्वायं रसजश्वायम्' इत्यनेनोक्तम्, तद् गर्भमेलकोत्तरकालं कारणत्वेन, तथा मातापित्रोरपि विशुद्धशुक्रशोणितोत्पादहेतुतया पारम्पर्येण कारणत्वादिति ज्ञेयम् ॥२१॥
चक्रपाणिः-पुनर्भरद्वाजः पृच्छति-यद्ययमित्यादि। कथं सन्धीयत इति कया परिपाट्या
For Private and Personal Use Only