SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः] शारीरस्थानम् । १६३६ सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः। तद् यथा-भक्तिः शीलं शौचं द्वषः स्मृतिमोहस्त्यागो मात्सयं शौय्यं भयं क्रोधस्तन्त्रोत्साहस्तक्ष्ण्यं माईवं गाम्भीर्यमनवस्थितत्त्वमित्येवमादयश्चान्ये ते सत्त्वजा विकारा यानुत्तरकालं सत्त्वभेदमधि. कृत्योपदेच्याम इति सत्त्वजानि। नानाविधानि तु खलु सत्त्वानि तानि सर्वाण्येकपुरुषे भवन्ति । न च भवन्त्येककालम् । एकन्तु प्रायोऽनुवृत्त्याह ॥ २०॥ कालं यानि सत्त्वजानि यानि च जायमानस्य। शीलं शीलता। तैष्ण्यं तीव्रस्वभावः। माद्देवं मृदुखभावः। गाम्भीर्यमचञ्चलखम्। उत्तरकालं महत्यां गर्भावक्रान्त्यां शारीरे। ननु सत्त्वमुक्तं त्रिविधं शुद्धं राजसं तामसमिति। तत् त्रिकमेवैकैकस्मिन् पुरुषे किमथवा प्रत्येकमित्यत आह-नानेत्यादि । एककालं युगपत् । ननु यदाककालं न भवति शुद्धं राजसं तामसञ्च मनस्तहि कथं मनःसंशमुच्यते सत्त्वं रजस्तमश्चाख्यायताम् अथवा सत्त्वमयं, रजोमयं तमोमयश्वाख्यायतां विविधमेव ततो भवति न तु नानाविधमित्यत आह-एकन्तु इत्यादि । सत्त्वमेकं प्रायोऽस्य सत्त्वगुणादाकैकगुणबहुलत्वेनानुवृत्त्या सात्त्विक वा राजसं वा तामसं वाह। तस्मान्न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामतीति न वाच्यम् ॥२०॥ यद्यपि सत्त्वस्य गर्भजनकत्वं साक्षान्नोक्तम्, तथापि सत्त्वस्य यदुपपादकत्वं गर्भ प्रति, तेनैव सरवस्य गर्भजनकत्वं प्रतिज्ञातं मन्तव्यम् । तेन 'यानि खल्वस्य गर्भस्य सत्वजानि' इत्यादिना गर्ने सत्त्वज. भावकथनमुपपन्नमेव, गर्भकारणत्वकथनमपि च। सत्त्वस्योपपादकत्वभाषया कारणत्वं यदुक्तम्, तदेहान्तरगमनरूपधर्मस्य गर्भकारणत्वातिरिक्तस्य प्रतिपादनीयम् । नानाविधानीति नानाविध. सात्विकराजसतामसवृत्तिभिन्नानि। तान्येकपुरुषे भवन्तीत्यनेन एक एव पुरुषः कदाचिद्धम्मक्रियायां सात्त्विको भवति, कदाचित् कामचिन्तायां राजसः, कदाचित् मोहे तमोमय इति दर्शयति। एकदैव सारिबकादयो धा न भवन्ति, किन्तु पर्यायेण भवन्ति। ननु यदेवकपुरुष एव सर्वे सात्त्विकादयो भवन्ति, तत् कथमयं सात्विक इत्यादिव्यपदेशा भवन्तीत्याहएकन्रिवत्यादि। प्रायोवृत्त्येति भूयिष्ठा यस्य सात्त्विका वृत्तयो भवन्ति स सात्विकः, यस्य राजस्यो वृत्तयो भवन्ति स राजस उच्यते इत्यादि। एतदेव पूर्वमुक्तम्,–'यद्गुणञ्चाभीक्ष्णं पुरुषमनुः वर्तते सत्त्वम्, तदगुणमेवोपदिशन्ति बाहुल्यानुशयाद' इति ॥ १९।२० ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy