SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९३८ चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् सम्प्रयोगो भवति । यदा तु तेनैव शुद्धेन संयुज्यते तदा जाते. रतिक्रान्तायाश्च स्मरति । रमातं हि ज्ञानमात्मनस्तस्यैव मनसोअनुबन्धादनुवर्त्तते, यस्यानुवृत्तिं पुरस्कृत्य पुरुषो जातिरमर इत्युच्यते इति सत्त्वमुक्तम् ॥ १६ ॥ , यानि खल्वस्य गर्भस्य सत्त्वजानि यानि चास्य सत्त्वतः सदगुणभूयिष्ठेन तेन मनसा द्वितीयायामाजातौ द्वितीयजन्मपर्यन्तं सम्प्रयोगः अस्य मनुष्यस्य भवति। तद्गुणमनोऽनुत्तिद्वितीयजन्मपर्यन्तं भवति। यदा तु तेनैव मनसा शुद्धन केवलसत्त्वगुणात्मकेन संयुज्यतेऽयं पुरुषस्तदातिकान्ताया अतीतायाः पूर्वस्या अपि जातेर्जन्मनः स्मरति। स्मरतेः कम्मेणि षष्ठी। न तु राजसेन न वा तामसेन मनसा यदि संयुज्यते । कुत इत्यत आहस्मार्त हीत्यादि। हि यस्मादात्मनो ज्ञानं स्मात स्मृत्या वर्तते। एतमेवार्थ व्याकरोति । तस्यैव शुद्धसत्त्वात्मकस्य मनस आत्मनोऽनुबन्धादनुवर्तते। यस्य मानस्यानुवृत्तिं पुरस्कृत्य अग्रे कृखा पुरुषो जातिस्मरः पूर्वजन्मस्मरणशील इत्यभिधीयते इति । तस्मानास्य किञ्चित् पोर्चदेहिकं स्यादविदितमश्रतमदृष्टं वा, स च किश्चिदपि न स्मरतीति यदुक्तं तन्न। नन्वेवमस्वात्मनो गुणवतः सत्त्वोद्रेकेण गर्भावक्रमो न तु सत्त्वसंप्रयोगादिति चेन, मनःकार्याणां शीलशौचादीनामसम्भवात् ॥१९॥ , गङ्गाधरः-ननु कानि सत्त्वकार्याणीत्यत आह-यानीत्यादि । जातोत्तरसुखायपलभते। 'स्मृग'विशेषणेन शरीरस्य मूत्रनखकेशादौ मनोगमनाभाधादात्मनोऽनुपलब्धिं दशयति । अपगमनपुरस्कृत इति देहान्तरगमनापायमुखे। भक्तिरिच्छा। यस्माद्रीन इति मनसा त्यता। येनेति यथामूतेन सात्त्विकेन राजसेन तामसेन वा मनसा मनो भूयिष्ठमित्यभिप्रायः। द्वितीयायां वा जाताविति द्वितीयजन्मनि, जन्मान्तरे यादृशं मनः, तादृशमेव जन्मान्तरे प्रायो मस्तीत्यर्थः। केचित् तु, 'तेन न द्वितीयायाम्' इति पठन्ति। अत्रापि प्रायो द्वितीये जन्मनि तुल्येन मनसा योगो न भवति, कदाचित् तु भवतीत्यर्थः । यदुक्तम्—'नास्य किञ्चित् पौर्वदेहिकमविदितं स्याद्' इति, तत् पौवंदेहिकं ज्ञानं क्वचिद् भवतीति दर्शयन्नाह-यदा स्वित्यादि । शुद्धेनेति विशुद्धसत्त्वगुणेन। तस्यैवेति वक्ष्यमाणेन यस्येत्यनेन सम्बध्यते। मोनियन्त्रपीड़ायामपि हि उदभूतेन तमसा विप्लुतं मनो नातिक्रान्तजन्मगतं स्मरति, यस्तूदभूतसत्त्वस्तमसा माभिभूयते, स सरत्येवातिक्रान्तजन्मानुभूतमिति भावः। पुरस्कृत्येति कारणत्वेनावधार्य । अयच मनोधर्मसमूह इन्द्रियोपक्रमोक्तोऽपि पुनरिह प्रकरणवशाच्यमानो न पुनरुक्तदोषमावहति । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy