________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ] शारीरस्थानम् ।
१६३७ अस्ति खल्वपि सत्त्वमौपपादुकं यज्जीवस्पृक शरीरेण छ अभिसंबध्नाति, यस्मिन्नपगमनपुरस्कृते शीलमस्य व्यावर्त्तते, भक्तिविपर्यस्यते, सव्वैन्द्रियाण्युपतष्यन्ते, बलं होयते,व्याधय आप्याय्यन्तै, यस्माद्धीनः प्राणान् जहाति, यदिन्द्रियाणामभिग्राहकञ्च मन इत्यभिधीयते, तत् त्रिविधमाख्यायते शुद्धं राजसं तामसञ्चेति। येनास्य खलु मनो भूयिष्ठं तेन द्वितीयायामाजाती
गङ्गाधरः-इति रसजवं गर्भस्य स्थापयित्वा सत्त्वजत्वं स्थापयति-- अस्तीत्यादि। न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामति इति यदुक्तं तन्न। यस्मादस्ति खलु सत्त्वं मनोऽप्यौपपादुकमिति। कथमोपपादुकमित्यत आह-यत् सत्त्वं जीवस्पृक् जीवात्मानं नित्यं स्पृशत् शरीरेणाभिसम्बनाति, तद्विना हि जीवात्मनः शरीराभिसम्बन्धो न स्यात्। यस्मिन् सत्त्वे अपगमनं शरीरात् स्वनिर्गमनं, पुरोऽग्रे कृतं येन तस्मिन् आसन्नमरणस्यास्य शील खभावो व्यावर्तते विपरीतो भवति, भक्तिभंजनशीलता विपय्यस्यते विपर्ययो भवति। उपतप्यन्ते सर्वेन्द्रियाणि शक्त्यादिना हीयन्ते। यस्माद्धीनः प्राणी। तदिन्द्रियाणां श्रोत्रादीनां स्वार्थग्रहणाय प्रेरकं यत् तन्मन इत्यभिधीयते। तत् त्रिविधमाख्यायते शुद्धं केवलसत्त्वात्मकं राजसं रजोगुणबहुलं तामसं तमोगुणबहुलम् । इत्यस्मादस्ति खल्वपि सत्त्वमोपपादुकमिति । न तु न चास्ति सत्त्वमौपपादुकमिति। अत्र तु नास्य किश्चित् पौव्वेदैहिकं स्यादविदितमश्रतमदृष्टं वा स च किश्चिदपि न स्मरतीति यदाशङ्कितं तदप्ययुक्तम्। कुत इत्यत आह-येनास्येत्यादि। येन सखाद्यन्यतमेन गुणेनास्य मनुष्यस्य मनो भूयिष्ठं
चक्रपाणिः--अस्तीत्यादिना मनस औपपादुकमाक्षिप्तं समादधाति । 'अपि'शब्दोऽवधारणे । अत्र च 'यजीवं स्पृकशरीरेणाभिसंबनाति' इत्यादिना मनसो धर्मकथनमेवोपपादुकसाधनं भवति, मनोन्यतिरेकेणैतदुच्यमानधर्माणामसिद्धः। नित्यमात्मानं स्पृशतीति स्पृक। शरीरमातिवाहिकशरीरम् । तेन स्पृकशरीरेण कारणभूतेन जीवमात्मरूपमभिसबध्नाति भोगायतनशरीरेणेति शेषः । आतिवाहिकशरीरसद्भावश्च "मूतैश्चतुर्भिः सहितः" इत्यनेन प्रतिपादितः। किंवा 'जीवमात्मानं स्पृफशरीरेण' इति स्पर्शवता शरीरेण यन्मनोऽभिसंबध्नाति तदोपपादुकमस्तीति योजना। एवं मन्यते-यदि मनोऽत्रात्मनः शरीरसम्बन्धे न स्वीक्रियते, तदा व्यापकत्वादात्मनः सर्वत्रवोपलब्ध्या भवितव्यम्। न च भवति । तथा यत्र स्पर्शवति शरीरे मनः प्रतिबद्धं भवति, तत्रैवायं
* जीवं स्पृकशरीरेणेति चक्रः ।
For Private and Personal Use Only