SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६३६ चरक-संहिता। खुडीकागर्भावक्रान्तिशारीरम् मभिनिवर्तयन्ति। न च केवलं सम्यगुपयोगादेव रसानां गर्भाभिनिवृत्तिर्भवति समुदायोऽप्यत्र कारणमुच्यते ॥ १७॥ ____ यानि तु खल्वस्य गर्भस्य रसजानि यानि चास्य रसतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः। तद् यथाशरीरस्याभिनिर्वृत्तिरभिवृद्धिः प्राणानुबन्धस्तृप्तिः पुष्टिस्त्माहश्चेति रसजानि ॥ १८॥ निरपत्यखमित्यस्मात् श्यामाकादुरपयोगिनां न निखिलेनानपत्यमिति । एव छागादिश्रेष्ठरसोपयोगिनामैकान्त्येन प्रजा स्यादिति यदुक्तं तदपि न युक्तम् । कुत इत्यत आह-ने च केवलमित्यादि । केवलं श्रेष्ठाजादिरसानामुपयोगादेव गर्भाभिनिट त्तिश्च न भवति जीवस्यानवक्रमात् । न हि केवलं रसज एवायं गर्भ इत्युच्यते। किमुच्यते कारणमित्यत आह–समुदाय इत्यादि। तथा च जीवस्यानवक्रमे श्रेष्ठरसोपयोगिनामपि न गर्भः स्यात् जीवावक्रमे तु स्यादित्यतो हेतोरजादिश्रेष्ठरसोपयोगिनामेकान्तेन गौ न भवतीति बोद्धव्यम्। नन्वेवम् अस्वात्मा कारणं कुतो रसः कारणमुच्यते इति चेन्न। रसं विना शरीराभिनित्यभिप्रादीनां रसकार्याणां गर्भस्य जातोत्तरकालं गर्भाशये जायमानस्य चासम्भवात् ॥१७॥ गङ्गाधरः-ननु कानि रसकार्याणीत्यत आह-यानि खित्यादि। यानि जातोत्तरकालं गर्भस्य रसजानि रसतः सम्भवतो गर्भाशये जायमानस्य यानि च रसजानि तान्यनुव्याख्यास्यामः---तद् यथेत्यादि। शरीरस्याभिनिन् त्तिरुत्पत्तिः। शुक्रशोणितयोरपि रसजसात् । अभिद्धिः क्रमेण परिमाणद्धियेण स्थौल्येन च। प्राणानुबन्धः उत्तरोत्तरबलश्वासनिश्वासादिहेखनुत्तिः । पुष्टिमध्यकालेऽपि दीर्घखाद्यभिद्धिं विनापि पोषणं शरीरस्य । इत्येवं प्रकारेण रसजश्चैवायं गर्भो न खरंसज इति ॥१८॥ ऽप्यत्र कारणमित्यनेन तुल्यसम्यग्रससेविनाञ्चापत्यभवने कारणं धर्मादि दर्शयति । अभिनिव्वृत्तिः अङ्गप्रत्यङ्गव्यक्तता। वृद्धिस्तु दैर्येण वृद्धिः । प्राणानुबन्धः इति बलानुबन्धः । पुष्ठिरुपचयः । उत्साही बलम् । 'इति'शब्दः प्रकारे। तेन एवंप्रकाराण्यान्यान्यपि वर्णादीनि रसजानीति दर्शयति । एवं पूर्वत्रापि 'इति'शब्दो व्याख्येयः। यदा तु 'इति'शब्दश्च परिसमाप्त्यर्थः, तदाप्याविष्कृता रसजानां परिसमाप्तिर्जया। तेन अनाविष्कृता वर्णादयोऽपि रसजा लभ्यन्ते ॥ १७॥१८॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy