________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः शारीरस्थानम् ।
१६३५ यथा-आरोग्यमनालस्यमलोलुपत्वमिन्द्रियप्रसादः स्वरवर्णवीजसम्पत् प्रहर्षभूयस्त्वचेति साम्यजानि ॥ १६॥
रसजश्चायं गर्भः। न हि रसाहते मातुः प्राणयात्रापि स्यात्, किं पुनर्गर्भजाम। न चैवास्यासम्यगुपयुज्यमाना रसा गर्भ
गर्भाशये जायमानस्यास्य च यानि सात्म्यजानि तान्यनुव्याख्यास्यामः। वीजस्य सम्पत् शुक्रशोणितदोषाभावः। प्रहर्षभूयस्वं मैथुने दुःखशून्यसुखोत्कर्षः । तस्मात् सात्म्यजश्चायं गभौं न खसात्म्यज इति ॥१६॥
गङ्गाधरः-सात्म्यजत्वं स्थापयिखा गर्भस्य रसजत्वं स्थापयति-रसजश्चेत्यादि । ननु कस्माद् रसजश्चायं गर्भ इत्यत आह-न हीत्यादि । प्राणयात्रा प्राणयापना। मातुः प्राणयात्रां विना कथं गर्भस्य जन्मसम्भव इत्यभिप्रेत्याहकिमित्यादि। तत्रापि रसोपयोगिस्त्रीपुरुषावभिप्रेत्य स्त्रीपुरुषाणां रसानुपयोगिखाभावेन सर्वेषामेव समजखापत्तिवारणाय श्रेष्ठरसापयोगस्य गर्भहेतुखे कल्पिते श्चेष्ठरसाजादिमांसरसादिसेविभिन्नानां श्यामाकादिसेविनां निखिलेन अनपत्यवं यदाशङ्कितं तन्न। कुत इत्यत आह-न चैवेत्यादि। अस्य स्त्रीपुरुषोभयस्यासम्यगुपयुज्यमाना अश्रेष्ठा रसा नैव गभमभिनिर्वर्त्तयन्ति, असम्यगरससेविनां हि स्त्रीपुरुषाणां त्रयो दोषाः प्रकुपिताः शरीरमुपसपेन्तो न यावत् शुक्रशोणितगर्भाशयोपघाताय सम्पद्यन्ते तावत् तदरसानुरूपगर्भजननाय भवन्ति इति । असम्यग्रसोपयोगिनां शरीरं सर्पद्भिरपि प्रकुपितैत्रिभिर्दोषैरनुपहतशुक्रशोणितगर्भाशयानां सापत्यखम् । तदुपहतशुक्रशोणितगर्भाशयानान्तु
"असात्मप्रसेविनश्च निखिलेनानपत्याः स्युः" इति पूर्वपक्षं परिहरति ; सात्मसेविनां पुनरित्या दिना तु ग्रन्थेन 'सात्म यसेविनामेकान्तेन प्रजा स्यात्' इति यदुक्तम्, तत् परिहरति ; सन्निपतितानामिति व्यवायमापन्नानाम् । अत्र स्वरवर्णी सात्मयजत्वेनोक्तौ ; तेन द्वावप्यत्र कारणमिति ज्ञेयम् ॥ १५॥१६॥
चक्रपाणिः-प्राणयात्रापि स्थादिति गर्भाधारमूताया मातुरपि प्राणस्थितिरित्यर्थः । न चैवमसम्यगुपयुज्यमाना इत्यादिना, 'असात्मपरसोपयोगस्य गर्भोपघातित्व दर्शयति ; असात्मपरसोपयोगिनां प्रभावेण जननं यत्, तदसात्म्यसेविप्रजाभवनन्यायतुल्यमिति नेह पुनर्दशितम् । समुदयो
For Private and Personal Use Only