________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९३४
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् सेविनां स्त्रीपुरुषाणां त्रयो दोषाः प्रकुपिताः शरीरमुपसर्पन्तो न शुक्रशोणितगर्भाशयोपघातायोपपद्यन्ते तावत् समर्था गर्भजननाय भवन्ति। सात्म्यसेविनां पुनः स्त्रीपुरुषाणामनुपहतशुक्रशोणितगर्भाशयानामृतुकाले सन्निपतितानां जीवस्यानवक्रमणाद् गर्भा न प्रादुर्भवन्ति । न हि कंवलं सात्म्यज एवायं गर्भः समुदायोऽत्र कारणमुच्यते ॥१५॥ ___ यानि तु खल्वस्य गर्भस्य सात्म्यजानि यानि चास्य सात्म्यतः सम्भवतः सम्भवन्ति तात्यनुव्याख्यास्यामः। तद् तस्मात् सात्माजो गर्भो न खसात्माजः। अत्रासात्मासेविनस्वखिलेनानपत्याः स्युरिति यदाशङ्कितं तन्न। कुत इत्यत आह-यावत् खल्वित्यादि। तस्मादसात्मासेविनां शरीरोपसर्प द्भिरपि प्रकुपितैरपि त्रिभिदोषैः शुक्रशोणितगर्भाशयोपघाताभाववतां सापत्यखम्। शुक्रशोणितगर्भाशयोपघातवतान्तु अनपत्यवमिति नासात्मासेविनां निखिलेनानपत्यवम्। एवं सात्मासेविनाम् ऐकान्तेन व्यक्तं प्रजा स्यादिति यदुक्तं तदपि न युक्तम् । कुत इत्यत आहसारमासेविनां पुनरित्या दि। सन्निपतितानामिति व्यवायमापन्नानाम् । यदि सात्मासेविनामनुपहतशुक्रशोणितगर्भाशयानामृतुकाले व्यवायवतामपि स्त्रीपुरुषाणां जीवस्यावक्रममन्तरेण न गर्भा भवन्ति, तहिं कथं सात्माजश्वायम् उच्यते इत्यत आह-न हीत्यादि। केवलमिति एकस्मात् सात्म्यादेव गों जायते इति नोच्यते, किमुच्यते इत्यत आह-समुदाय इत्यादि। समुदायो मातापित्रात्मसात्मारससत्त्वानामेषां समुदाय इत्यर्थः । जीवस्यानवक्रमे सात्माम् एव सेवमानानां न गर्भा भवन्ति। जीवस्योपक्रमे तु भवन्तावेति सात्म्यसेविनाम् ऐकान्त्येन व्यक्तं प्रजा न स्यादिति बोध्यम्। नन्वैतावतापि सात्म्यस्य कस्मात् कारणमिष्यते जीवस्यावक्रमस्येष्यतामिति चेन्न। गर्माणां सात्म्यस्य कारणखमन्तरेण सात्म्यजान्यपि यानि तानि न प्रादुर्भवन्ति ॥१५॥
गङ्गाधरः-ननु कानि च तानि सात्म्यजानीत्यत आह-यानीत्यादि। गर्भस्य जातोत्तरकालं यानि तु सात्म्यजानि तानि सात्म्यतः सम्भवतो दर्शयन् सात्म्यसेवाया गर्भ प्रति कारणत्वं द्रढ़यति, सात्म्यसेविनामपि प्रभावबलोत्पत्ति दर्शयन्
For Private and Personal Use Only