________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
शारीरस्थानम् ।
१६३३ यानि खल्वस्य गर्भस्यात्मजानि यानि चास्यैवात्मतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः। तद् यथा-तासु तासु योनिषूत्पत्तिरायुरात्मज्ञानं मन इन्द्रियाणि प्राणापानौ प्रेरणं धारणमाकृतिस्वरवर्णविशेषाः सुखदुःखे इच्छाद्वषो चेतना धृतिबुद्धिः स्मृतिरहङ्कारः प्रयत्नश्चेत्यात्मजानि ॥१४॥
सात्म्यजश्चायं गर्भः। न ह्यसात्यसेवित्वमन्तरेण स्त्रीपुरुषयोः बन्ध्यत्वमस्ति गर्भे वाऽनिष्टो भावः। यावत् खल्वसाम्य
गङ्गाधरः-नन्वेवमात्मनोऽन्यतोऽपि तानि जायन्ते यानि तु खल्वस्य गर्भस्यात्मजानीत्यतस्तान्याह-यानीत्यादि। जातोत्तरकालमप्यात्मजानि सम्भवतो गर्भाशये जायमानस्य गर्भस्य च यानि चात्मजानि तानि चानुव्याख्यास्याम इत्यर्थः। आयुः दीघेहस्वादिरूपं शुभाशुभकम्मफलात्, आत्मज्ञानं स्वशानम्, मनः सत्त्वसंज्ञक मिथ्याहकारिकान्मनसः पूर्बकृतकम्मेसहितात्मनः । एवमाहङ्कारिकेन्द्रियेभ्यो नित्यस्वानुबन्धेभ्यो नित्येभ्यो भूतेभ्यः पुनः कत्मिकेभ्यस्त द्विरूपाण्यनित्यानीन्द्रियाणि बोध्यम्। प्रेरणं मनःप्रभृतीनां स्वस्वविषये, धारणं मनसि धारणा चिरस्थितिरित्यर्थः। आकृतिविशेषः खरविशेषो वर्णविशेषश्चात्मकार्य एव शुक्रच्युतिकालिकपकारविशेषरसविशेषादिकरणसम्पत्तिसहायाद् भवति, न तु शुक्रादिप्रकारविशेषकार्यः । तस्मादिष्टास्वेव योनिषु वशिनमित्यादिकश्चात्मानमात्मा न जनयति । तस्मादेवात्मजश्चायं गर्भ इति ॥१४॥
गङ्गाधरः-गर्भस्यात्मजवं स्थापयित्वा सात्म्यजत्वं स्थापयति-सात्म्यजवायमित्यादि। अयं गर्भस्तु सात्माज एव न खसात्मजः। कुतो नासात्माजः सात्माजश्च भवतीत्यत आह—न हीत्यादि। हि यस्मात् असात्मासेवित्वं विना स्त्रीपुसयोर्वन्धात्वं नास्ति, गर्भेषु वाप्यनिष्टभावो नास्ति
चक्रपाणिः-एवमात्मजन्वं गर्भस्य व्युत्पाद्यात्मजान् विशेषेणाह-यानीत्यादि। प्रेरणं धारणम्चेन्द्रियाणामेव । अत्र च तत्तद्देवादि-पश्वादियोनिगमनपरत्वे धर्माधर्मजन्ये धर्माधर्मस्यापि जनकत्वेनात्मैव मूलकारणमुच्यते। आत्मज्ञानप्राणापानादौ तु मनःकारणत्वेऽप्यात्मैव व्यवधानेन कारणम् ॥ १४ ॥
चक्रपाणि:- सात्म् जश्चेत्यादिना सावजवं युपादयति, ६.स. सेवां गर्भापघाहिनी
For Private and Personal Use Only