________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९३२
चरक-संहिता। [खुड्डीकागर्भावकान्तिशारीरम् सम्भवति।दृष्टश्च चेष्टा योनिरैश्वयं मोक्षश्चात्मविद्भिरात्मायत्तम्। न ह्यन्यः सुखदुःखयोः कर्त्ता न चान्यतो गर्भो जायते जायमानः, न चाङ्कुरोत्पत्तिरवीजात् ॥ १३ ॥
कुतोऽत्रात्मा करणदोषवत्वेऽपि नाकारणमित्यत आह- दृष्टञ्चेत्यादि । कस्माच चेष्टादिकमात्मायत्तं दृश्यते इत्यत आह-न ह्यन्य इत्यादि। हि यस्मादात्मतोऽन्यः कश्चिद्भावः। ननु कथमन्यो न कतैत्यत आह-न चान्यत इत्यादि। अन्योऽप्यात्मतो यः कतैष्यते सोऽपि जायमानो न चात्मतोऽन्यतो जायते। ननु कथं नान्यतः स कर्ता जायमानो जायते इत्यत आहन चाङ्क रेत्यादि। वीजं विना न चारोत्पत्तिरिति, तथा च वीजं चेतनावान् आत्मा तस्माज्जायमानोऽन्यश्चेतनः कर्ताभिधीयते उपचारात् । परन्तु तत्रापि कत्त्वे आत्मैव वीजं तस्मादात्मा सुखदुःखयोः कर्ता तस्माच्च सुखदुःखहेतुः कर्म शुभाशुभमात्मायत्तं शुभाशुभकर्मफलादिष्टानिष्टयो निरैश्वर्य मोक्षश्च शुभकम्मत इत्यत आत्मायत्तमेव चेष्टादिकमतो नात्मा करणदोषादकारणं गर्भजनने सम्भवतीति बोध्यम् ॥१३॥
तय कारणमेवायमान्मा, कारणं हि यद्भवति, तत् करोत्येव कार्यमित्याह-न चेत्यादि। करणदोषादकुर्वन् गर्भ कदाचिदात्मा न गर्भजनने कारणं भवतीति न, अपि तु भवत्येव कारणम् । एवं मन्यते-मृदाद्यभावात् घटमकुर्वन्नपि कुम्भकारः कारणमेव घटस्य भवति, घटजननशक्तियुक्तत्वात्, तथा आत्मापि करणदोषादकुर्वन्नपि तथाविधं गर्भ तजननशक्तत्वेन भूयोदृष्टत्वात् कारणमेव भवति । तथेष्टयोनिगमने प्रसक्तिरपि प्रोद्भाविता, आत्मनः कारणत्वेन सा क्वचिद भवतीत्यपि दर्शयन्नाह- दृष्टम्चेत्यादि। आत्माधीना योनिः पुरुष प्रति इष्टा योनिः, तथा ऐश्वर्यादयश्वात्माधीना दृष्टाः, यथोक्तं कतिधापुरुषोये-"आवेशश्चेतसो ज्ञानम्" इत्यादिना । आत्मनः कारणत्वे हेत्वन्तरमाह-न ह्यन्य इत्यादि। हि यस्मादात्मनोऽन्यः सुखदुःखयोः कर्ता नास्ति, अत आत्मैव सुखदुःखसाधनेन्द्रियकर्मशरीरादिकर्ता। तेन आत्मा कारणं गर्भस्य सुखदुःखाद्याधारस्येति भावः। अथ भूतान्येव कस्मात् संयोगवशात् चेतनासुखादिकारणानि न भवन्तीत्याह-न चान्यत इत्यादि। अन्यत इति विजातीयात् । जायमान इत्युत्पद्यमानः । सदृशमेव कारणात् कार्यमुत्पद्यते। येन न शणस्याङ्कुरोत्पत्तिर्नारिकेलवीजादिति कार्यत्वेनाभिमताकुरस्य वीजादुत्पत्तिः ; तेन गर्भस्य यच्चैतन्यं तदचेतनेभ्यो न भवति, किन्तु चेतनाधातोरात्मन एवेति दर्शयति ॥ १३॥
For Private and Personal Use Only