SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः शारीरस्थानम्। १६३१ वशात् कचिच्चैषां करणशक्तर्भवति क्वचिन्न भवति। यत्र सत्त्वादिकरणसम्पत् तत्र यथाबलमेव यथेष्टकारित्वमतोऽन्यथा विपर्ययः। न च करणदोषादकारणमात्मा गर्भजनने तहि कथङ्कार क खमस्तीत्यत आह-ते किञ्चिदित्यादि। ते माता च पिता च जीवश्चैते किञ्चित् कम्मै स्ववशात् कुर्वन्ति, किश्चित् शोकमोहादिक कर्मवशात्, कचित् कार्य एषां मातापितजीवानां करणानां मनोबुद्धयादीनां शक्तर्भवति, कार्य कचिच्च कार्ये शक्तितो न भवति । सत्त्वादिकरणसम्पत् मनःप्रभृतीनां रजस्तमोऽनुबन्धनिम्मुक्तवादिः। अतोऽन्यथा यत्र सत्त्वादिकरणव्यापत् तत्र विपर्ययो न यथेष्टकारिखमिति । ननु तर्हि करणानां मनोबुद्धग्रादीनां रजस्तमःप्रभृतिदोषादात्मा न कारणं भवखिति चेदाह-न चेत्यादि । सात्मपरससेवादिकं चाचरतः, गर्भस्य जीवाधिष्ठानादौ तु कर्माधीने परवशौ ; तथा आत्मापि गर्भस्य चैतन्ये तथा धर्माधर्मक्रियानुष्टाने स्ववशः, कर्मजन्ये इष्टयोन्यादिगमने धर्माधर्मपराधीन एव । तेन कर्माधीनेऽपि विषये न मात्रादीनां यथेष्टकारित्वम् । यथेष्टकारित्वमपि मात्रादीनां क्वचित् दर्शयन्नाह-क्वचिच्चैषामित्यादि । करणमुपकरणं साधनोपाय इति यावत् । सत्त्वं मनआदि प्रधानं येषाम्, तानि सत्त्वादीनि मनइन्द्रियशुक्रशोणितादीनि ; यथाबलमिति यथाकर्म, बलशब्देनेहादृष्टमुच्यते। एतेन यत्र मात्रादीनां पुत्रेच्छायामिष्टयोनिषु गमनादिकरणशक्तिर्भवति, कर्म चानुगुणं भवति, तत्रेप्सितपुत्रादिष्विष्टयोनिगमनादि कार्यं भवति, यदि तत्र विशुद्धशुक्रः पुरुषो भवति, स्त्री च विशुद्धयोन्याशयत्वादिगुणयुक्ता, पुत्रजननञ्च कर्म तयोर्बलबत्, तदा पुत्रजन्माभिसन्धाय मैथुनमापद्यमानौ ईप्सितं पुत्रं जनयतः, तथा आत्मापि विशुद्धसत्त्वादिगुणयुक्तः शुभकर्मवान् तत्काले इष्टां योनिमनुध्यायति, तदाभीष्टयोनिगमनं सम्पादयत्यात्मन इत्यादि यथेष्टकारित्वोदाहरणं ज्ञेयम्। अतोऽन्यथा इति सत्त्वादिकरणाशक्तौ विगुणे च दैवे विपर्याय इति न यथेष्टकारित्वम् ; किंवा कचिच्च मैथुनादौ पित्रादीनां न स्ववशत्वम्। तत् किमिति जीवोपक्रमादावपि न स्ववशत्वमेषां भवति ? इत्याह-वचिच्चैषामित्यादि। क्वचिदेव कार्ये यस्मात् किञ्चित् करणं मात्रादीनां शक्तम्, न सर्वत्र, तेन सर्वेष्वेव गर्भस्य भावेषु न शक्तमिति भावः। यत्रापि चैते मात्रादयः स्ववशाः सन्तः कुर्वन्ति, तत्रापि स्वीय. स्वीयकरणायुक्ता एवं कुर्वन्तीत्याह-यत्र सत्त्वेत्यादि। यथाबलमिति यथाशक्ति। अनेन च मात्रादयो गर्भस्य येषु विशेषेषु शक्ताः, तेषु सत्त्वादिकरणसम्पत्तौ यथेष्टकारिणो भवन्ति, नाशक्यविषये उपहतोपकरणा वा यथेष्टकारिणो भवन्तीति दर्शयति । अतोऽन्यथा विपर्याय इत्यस्य चार्थोऽने व्याकृतः। ननु सत्त्वादिकरणदोषाच्चेदयमात्मा गर्भ न जनयति तथाविधं, हन्त For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy