SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६३० चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् तत्र तत्र च वयसि तस्यां तस्यामवस्थायाम्। यथा-सतामेव शुक्रशोणितजीवानां प्राक् संयोगादगर्भवं न भवति। तच्च संयोगाद्भवति। यथा सतस्तस्यैव पुरुषस्य प्रागपत्यात् पितृत्वं न भवति तच्चापत्याद्भवति। तथा सतस्तस्यैव गर्भस्य तस्यां तस्यामवस्थायां जातत्वमजातत्वञ्चोच्यते ॥ १२॥ __न तु खलु गर्भस्य मातुर्न पितु त्मनः सर्वभावेषु यथेष्टकारित्वमस्ति। ते किश्चित् ववशात् कुर्वन्ति किञ्चित् कर्म नन्ववस्थान्तरप्राप्तिरियं, कथं जायते वा जन्यते वा इत्यत आह-सत इत्यादि। सतश्च प्रासिद्धस्यावस्थान्तरगमनमेव जन्मोच्यते, न खन्यद रूपम्। तत्र उदाहरणमाह-यथेत्यादि । वीजधा सूक्ष्मदेही जीवः। सतां वर्तमानानांशुक्रशोणितजीवानां संयोगात् । अत्र दृष्टान्तमाह-यथेत्यादि । तच्चेति पितृखम् । इति भगवदात्रेयेण प्रोच्य भरद्वाजोक्तं न हि जातो जनयति सत्त्वात्, न चैवाजातो जनयति सत्त्वात् । तस्मादुभयथाप्यनुपपत्तिरिति दूषणं प्रत्युक्तम् ॥१२॥ गङ्गाधरः-यद्ययमात्मानं शक्तो जनयितु स्यादित्यादि भरद्वाजदूषणं पतिवक्तमाह-न तु खल्वित्यादि। यथेष्टकारिवं स्वेच्छानुरूपकारित्वम्। ननु यथा बालस्य युवत्वावस्थाऽजाता जन्यत इति च, तथा अजातो जनयत्यात्मात्मानमिति च शब्दप्रयोगसमर्थनमात्रमेतद् विवक्षाभेदात् बोद्धव्यम्। अनेन चात्मावस्थाभेदकृतजातत्वसमर्थनेन 'जातो वा' इत्यादिग्रन्थकृतपूर्वपक्षः शब्दप्रयोगसमर्थनतया परिहृतः ; परमार्थतस्तु नित्यत्वेनाजात एवात्मा आत्मनोऽजातावस्थां गर्भादिरूपां जनयति ; तेन नासतः कारणत्वम् , सतो वा जन्यत्वम् इति पक्षः स्थिर एव । सतो हीत्यादिना सत्कार्यपक्षं सांख्यमतं दर्शयति ; किंवा, वयोभेदेन जन्म, तदेवावस्थान्तरगमनमिति दर्शयति ; तस्यां तस्यामवस्थायामिति च्छेदः । पितृत्वमिति पितृत्वन ध्यपदिश्यत इत्यर्थः ॥ १२ ॥ चक्रपाणिः-यदुक्तम्,-यद्यात्मा आत्मानं जनयति, तदा वशित्वादिगुणयुक्तं जमयेदिति ; तत्रोसरमाह-न तु खल्वित्यादि। गर्भस्य सर्वभावे न मात्रादीनां यथेष्टकारित्वमिति योज्यम् । अत्र च यद्यप्यात्मैव प्रकृतः तथापि तुल्यसमाधानत्वेन मातापितरावपि व्युत्पादितौ। यतो ह्यात्मनः सर्वभावेषु यथेष्टकारित्वेन इष्टयोनिगमनादिप्रसक्तिः समाधीयते, तथा मातापित्रोरपि यथेष्टकारित्वेन पुत्रानेव जनयेयुरित्यादिपूर्वपक्षः परिहृतो भवति । अथ कुत एवात्मादीनां यथेष्टकारित्व क्वचिन्न भवतीत्याह-ते किञ्चिदित्यादि । किञ्चिदिति न सर्वम्। अत्र मातापितरौ स्ववशौ मैथुनं गर्भकारणं For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy