________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ] शारीरस्थानम् ।
१६२६ अनादि-सत्त्वान्नोपपद्यते। तस्मादजात एवायमजातं गर्भ जनयति जातोऽप्यजातं च गर्भ जनयति। स चैव गर्भः कालान्तरण बाजयुवस्थविरभावानवाप्नोति। स यस्यां यस्यामवस्थायां वर्तते तस्यां तस्यां जातो भवति, या त्वस्य पुरस्कृता तस्यां जनिष्यमाणश्च। तस्मात् स एव जातश्चाजातश्च युगपद्भवति तस्मिंश्चैतदुभयं सम्भवति जातत्वञ्चैव जनिष्यमाणत्वञ्च । स जातो जन्यते। स चैवानागतेष्ववस्थान्तरेष्वजातो जनयति
आत्मनात्मानम्। सतो ह्यवस्थान्तरगमनमात्रमेव हि जन्म चोच्यते यस्मात् गर्भे गर्भाशये गर्भस्यात्मसंज्ञा स्वसंशा। ननु तर्हि किमात्मा जात इत्यत आह-तस्य पुनरित्यादि । तस्यात्मनः पुनस्तस्यात्मनस्तु जन्म नोपपद्यतेऽनादिसत्त्वात् अनादित्वात् सत्त्वाच। तस्माज्जन्मानुपपत्तितः स आत्मा अजात एवानातं गर्भ जनयति। इति तु न चैवाजातो जनयति सत्त्वादित्यस्योत्तरम्। न हि जातो जनयति सत्त्वादित्यस्योत्तरमाह-जातोऽप्यजातमित्यादि। जातोऽयमात्मा स्वमेव जातं गभं जनयति । स चाजात एवात्मा गर्दा गर्भावस्थामापन्नः। बालेत्यादिस्थूलावस्थाप्रदर्शनं शिष्याणां स्फुटबोधार्थम्, वस्तुतः प्रतिक्षणमवस्थान्तरं प्राप्नोति शीघ्रगवस्वभावेन क्षणभङ्गखात् जगतः। यस्यां यस्यां बाल्ययौवनादौ तस्यां तस्यां बाल्ययौवनादौ, या तु अस्य . जातस्य या खवस्था पुरस्कृता अग्रे कृता आगामिनी, तस्यामवस्थायां स बालो वा युवा वा जनिष्यमाण इति, तस्मात् स बालो वालखेन जातश्च युक्खादिना तु अजातश्चेति युगपज्जातखमजातवञ्च इत्युभयं तस्मात् तस्मिन् बाले एतजातलं जनिष्यमाणवञ्चैतदुभयं सम्भवति, स च बालो जातः क्रमेण युवा जन्यते जायते आत्मना तूत्पाद्यते इति द्वार्थः। कथं जातो जन्यत इत्यत आहस चवेत्यादि। स एव च बालोऽनागतेषु भविष्यत्सु युवस्थविरादिभावेषु अवस्थान्तरेषु आत्मानमात्मना जनयति स्वेनैव स्वं युवादिकं जनयति । तस्येत्यनेन परमात्मानं न जनयति ; तस्यानादित्वाजन्म नोपपद्यते तस्मादजात एवायम् अजातं गर्भ जनयतीति पक्षोऽत्र योज्यः। अथाजातः सन् गर्भावस्थरूपो जात उच्यते ; एवमजातत्वं जातत्वञ्चात्मनि द्वयमपि व्यपदिश्यते। एतदेवात्मनि जातत्वमजातत्वञ्च दर्शयितु दृष्टान्तार्थ गर्भ एव जातत्वमजातत्वं दर्शयति–स चैवेत्यादि । पुरस्कृतेत्यग्रे भविष्यन्ती।
२४२
For Private and Personal Use Only