________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२८
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् पितृजश्चायं गर्भः। न हि पितुझते गर्भोत्पत्तिः स्यान्न च जन्म जरायुजानाम्। यानि खल्वस्य गर्भस्य पितृजानि यानि चास्य पितृतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः। तद्यथा-केशश्मश्रुनखलोमदन्तास्थिशिरास्नायुधमन्यः शुक्रमिति पितृजानि ॥ ११॥
आत्मजश्चायं गर्भः। गर्भात्मा ह्यन्तरात्मा यस्तमेनं जीव इत्याचक्ष्यते।शाश्वतमरुजमजरममरमक्षयमभेद्यमच्छेद्यमलोड्यं विश्वरूपं विश्वकर्माणमव्यक्तमनादिमनिधनमक्षरमपि। स गर्भाशयमनुप्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भत्वेन जनयत्यात्मनात्मानम्, आत्मसंज्ञा हि गर्भे, तस्य पुनरात्मनो जन्म
गङ्गाधरः-तहि पिजश्चायं कथं स्यादित्यत आह-पितृजश्चायमित्यादि। यानि तु खल्वस्य पितृतो जातस्य गर्भस्य पितृजानि जायमानस्य च यानि तेषाञ्च जन्म न स्यादिति। तानि केशादीनि पितृशुक्रजानि न च मातुरातवजान्यथवाहाररसजानि॥११॥
गङ्गाधरः-कथमात्मज इत्यत आह-आत्मजश्चेत्यादि। योऽन्तरात्मा स गर्भस्यात्मा तमेनमन्तरात्मानं जीव इत्याचक्षते। योऽयं जायते स जीवतीति । किं जीव इत्यत आह-शाश्वतमिति । एष ह्यशाश्वतो मरणशीलखात् । सोऽन्तरात्मा शुक्रशोणिताभ्यां सह आत्मानं स्वमेव गर्भत्वेन गभेरूपेण जनयति। कुतो गर्भस्यात्मवमित्यत आह-आत्मसंज्ञा हि गर्भे इति। हि प्रन्थो व्याख्येयः । मातृजस्वी स्वगादीनामागमगम्यमेव । पुरीषाधानं पक्वाशयः, उत्तरगुदाधरगुदी गुदोत्तराधरभागौ, वपावहनं तैलवर्त्तिकेति ख्यातम् ॥ १० ॥
चक्रपाणिः-शुक्रमिति विच्छिद्य पाठेन, शुक्रस्य सर्चधातुसारस्योपादेयतां दर्शयति ॥११॥
चक्रपाणिः-आत्मज इत्यादिना आत्मजत्वं व्युत्पादयति ; 'अन्तरात्मोच्यते' इत्यनेन, गर्भकारणभूतमात्मानं षढ़ धातुसमुदायवद 'आत्म'शब्दाभिधेयान व्यावर्त्तयति ; आचक्षत इति आगमेषु ; शाश्वतादिशब्दैछ वते वृद्धाः, अलोड्यमित्यलोभ्यम् ; गर्भत्वेन जनयत्यात्मानमिति गर्भस्वरूपो यः पदधातुरात्मा, तं जनयतीत्यर्थः ; गर्भस्यात्मशब्दाभिधेयतामाह-'आत्मसंज्ञा हि गर्भ' इति ;
For Private and Personal Use Only