________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः शारीरस्थानम् ।
१६५७ ब्रह्म चेद्वेद तस्माचेन्न प्रमाद्यति। शरीरे पाप्मनो हिला सर्वान् कामान् समश्नुते। तस्यैष एव शारीर आत्मा यः पूच्चेस्य। तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य प्रियमेव शिरो मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्ष आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति। असन्नेव भवति असद् ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः। तस्यैष एव शारीर आत्मा यः पूज्वेस्य इति। आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठेत्यनेन ख्यापितं हिरण्मयः पुरुषः एतस्मात् पश्चमात् कोषात् परः षष्ठः कोष इति। तथा च । तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा हिरण्मयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्यान्नमेव शिर आपो दक्षिणः पक्षस्तेज उत्तरः पक्ष सदब्रह्मगायत्री शक्तिरात्मा। असब्रह्मशक्तिः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति। हिरण्मये परे कोषे विरजं ब्रह्म निष्कलम् । तच्छुभ्र ज्योतिषां ज्योतिस्तद् यदात्मविदो विदुः॥ असद्वा इदमग्र आसीत् ततो वै सदजायत। तदात्मानं स्वयमकुरुत तस्मात् तं सुकृतमुच्यते॥ तस्यैष एव शारीर आत्मा यः पूर्वस्येति । यतत् सुकृतं रसो वै सः। रसं हवायं लब्ध्वानन्दीभवति। को रवान्यात् कः पाण्याद् यदेष आकाश आनन्दो न स्यात्। एष रेवानन्दयतीति। इति तद्धेतुखव्यपदेशाद्धिरण्मयः पुरुषोऽप्यानन्दः सब्रह्म पुच्छं प्रतिष्ठा। स आनन्दो ब्रह्मेति व्यजानादित्युक्तमत आनन्दमयखमिति। समाधौ सुषुप्तौ चैष यमानन्दयति स आनन्दतीत्यानन्द आत्मानन्दमयस्यात्माऽभिहित इति । अथ तस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुष्योरग्निरने आपोऽन्यः पृथिवी, पृथिव्या ओषधयः, इत्येतं वेदं स्मृता मनुरुवाच। तस्य सोऽहनिशस्यान्ते प्रसुप्तः प्रतिबुध्यते । प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् । मनः सृष्टिं विकुरुते चोद्यमानं सिमुक्षया। आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः॥ आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः। बलवान् जायते वायुः स वै स्पर्शगुणो मतः॥ वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत् तद्रूपगुणमुच्यते ॥ ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः। अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः॥ इति द्वितीयादिकल्पे यद्वा अव्यक्तं नामात्मा स एवैष आदित्यो नारायणो
For Private and Personal Use Only